डीए पर मुख्यमंत्री शुभेंदु अधिकारी का बड़ा बयान, कहा- केंद्र और राज्य के भत्ते का अंतर धीरे-धीरे होगा खत्म
कोलकाता, 22 जुलाई (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी राज्यस्य शासकीयकर्मचारिणां महङ्ग्यभत्तायाः विषये महत्त्वपूर्णं वक्तव्यं प्रदत्तवान्। बुधवासरे विद्युत्भवने आयोजिते कार्यक्रमे सः उक्तवान् यत् राज्यस्य केन्द्रसर्वकारस्य च महङ्ग्
शुभेंदु अधिकारी


कोलकाता, 22 जुलाई (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु अधिकारी राज्यस्य शासकीयकर्मचारिणां महङ्ग्यभत्तायाः विषये महत्त्वपूर्णं वक्तव्यं प्रदत्तवान्। बुधवासरे विद्युत्भवने आयोजिते कार्यक्रमे सः उक्तवान् यत् राज्यस्य केन्द्रसर्वकारस्य च महङ्ग्यभत्तयोः विद्यमानः अन्तरः शनैः शनैः न्यूनीकृतः भविष्यति। अवशिष्टमहङ्ग्यभत्तस्य भुगतानमपि चरणबद्धरीत्या क्रियते इति तेन उक्तम्।

मुख्यमन्त्री अवदत् यत् बहवः जनाः अपेक्षन्ते स्म यत् सर्वकारः एकवारमेव द्विचत्वारिंशत् प्रतिशतं महङ्ग्यभत्तं प्रदास्यति। सामाजिकमाध्यमेषु अपि दशप्रतिशतात्मकमहङ्ग्यभत्तप्रदानस्य चर्चा प्रवर्तमाना आसीत्। सः अवदत् यत् सर्वकारेण न द्विचत्वारिंशत् प्रतिशतं महङ्ग्यभत्तं प्रदत्तम्, न च दशप्रतिशतात्मकं महङ्ग्यभत्तं प्रदत्तम्, अपितु सर्वेषां पक्षाणाम् आकलनं कृत्वैव एषः निर्णयः स्वीकृतः।

सः शासकीयकर्मचारिणः आश्वासयन् अवदत् यत् अवशिष्टमहङ्ग्यभत्तमपि अनन्तरकाले समायोजितं भविष्यति। कर्मचारिभिः चिन्ता कर्तव्या नास्तीति तेन स्पष्टतया उक्तम्।

मुख्यमन्त्री एतदपि अवदत् यत् पूजामासे घोषितस्य महङ्ग्यभत्तस्य धनराशिः प्रत्यक्षरूपेण शासकीयकर्मचारिणां बैङ्कलेखेषु निक्षेपिता भविष्यति। तेन उक्तं यत् राज्यसर्वकारेण सप्तमवेतनायोगस्यापि गठनं कृतम् अस्ति। अयं वेतनायोगः भविष्ये वेतनभत्तसम्बद्धेषु विषयेṣu महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

मुख्यमन्त्रिणः अस्य वक्तव्यस्य अनन्तरं राज्यस्य शासकीयकर्मचारिणां मध्ये महङ्ग्यभत्तविषये पुनरेकवारं चर्चायाः तीव्रता वर्धिता। तथापि केन्द्रराज्यसर्वकारयोः महङ्ग्यभत्तयोः विद्यमानः अन्तरः सम्पूर्णतया कदा समाप्तो भविष्यति, अस्मिन् विषये मुख्यमन्त्रिणा कापि निश्चिता समयसीमा न निर्दिष्टा।

Hindusthan Samachar / Dheeraj Maithani