Enter your Email Address to subscribe to our newsletters

चेन्नई, 22 जुलाईमासः (हि.स.)। तमिलनाडुराज्ये डेंगूसङ्क्रमणस्य वर्धमानानां प्रकरणानाम् अधिकृत्य राज्यसरकारः सतर्का अभवत्। अस्मिन् मध्ये राज्यस्य स्वास्थ्यन्त्री अरुणराजः बुधवासरे उक्तवान् यत् २०२६ तमवर्षस्य जुलैमासस्य २१ दिनाङ्कपर्यन्तं राज्ये डेंगूसङ्क्रमणस्य प्रायः नवसहस्राणि प्रकरणानि समुपस्थितानि सन्ति। स्वास्थ्यविभागः स्थितेः उपरि निरन्तरं दृष्टिं निधाय वर्तते तथा सङ्क्रमणनिवारणार्थं व्यापकस्तरे सावधानतामूलकाः उपायाः क्रियमाणाः सन्ति।
पत्रकारैः सह वार्तालापे अरुणराजः उक्तवान् यत् चिकित्सकानां प्रतिवेदनानुसारं राज्ये डेंगूप्रकरणानां सङ्ख्या निरन्तरं वर्धते। एतद्दृष्ट्वा सर्वेषु जनपदेषु निरीक्षणं वर्धितम् अस्ति तथा स्वास्थ्यविभागाय आवश्यकनिर्देशाः प्रदत्ताः सन्ति, येन समये एव सङ्क्रमणम् नियन्त्रणे नेतुं शक्येत।
तेन उक्तं यत् राज्यसरकारेण मच्छरनियन्त्रणाभियानम् अधिकवेगेन प्रवर्त्यते। अस्य अन्तर्गतं नागरग्रामीणप्रदेशेषु धूमीकरणम्, लार्वानियन्त्रणम् तथा अन्ये निवारकोपायाः निरन्तरं क्रियन्ते। स्वास्थ्यविभागस्य कर्मकराः संवेदनशीलप्रदेशेषु नियमितरूपेण निरीक्षणं कुर्वन्ति तथा जनान् डेंगूनिवारणविषये जागरूकान् अपि कुर्वन्ति।
स्वास्थ्यन्त्री उक्तवान् यत् डेंगूनिवारणे सामान्यजनानां भूमिका सर्वाधिकमहत्त्वपूर्णा अस्ति। तेन जनाः प्रार्थिताः यत् ते स्वगृहेषु तथा परितः कुत्रापि जलबन्धः न भवेत् इति सुनिश्चितं कुर्वन्तु। शीतलकयन्त्रेषु, जलसञ्चयटङ्कीषु, पुष्पकुण्डेषु, जीर्णचक्रेषु तथा अन्येषु उद्घाटितपात्रेषु सञ्चितं जलं नियमितरूपेण स्वच्छं कुर्वन्तु, यतः एतेषु स्थानेषु एव डेंगूव्याधेः प्रसारकाः एडीजमषकाः वर्धन्ते।
अरुणराजः उक्तवान् यत् यदि मच्छरोत्पत्तिः प्रारम्भिकावस्थायामेव निरुद्धा भवेत् तथा प्रत्येकः नागरिकः स्वच्छतां पालनार्थं सहयोगं कुर्यात्, तर्हि डेंगून्मूलनाभियानं सफलं कर्तुं शक्येत। तेन जनाः अपि प्रार्थिताः यत् ज्वरः, शिरोवेदना, शरीरवेदना अथवा डेंगूव्याधेः अन्ये लक्षणानि दृश्यन्ते चेत् विलम्बं विना समीपस्थं स्वास्थ्यकेन्द्रं गत्वा परीक्षणं कारयन्तु तथा चिकित्सकस्य परामर्शस्य पालनं कुर्वन्तु।---------------
Hindusthan Samachar / Dheeraj Maithani