तिलको गणेश उत्सवस्य शिवाजी महोत्सवस्य माध्यमेन राजनीतिकीं चेतनां जागरितवान्
लोकमान्यस्य बाल गंगाधर तिलकस्य जयंत्यां (23 जुलाई) विशेषः -डॉ. लोकेश कुमार चन्देलः। लोकमान्यः बालगङ्गाधरतिलकः महान् स्वतन्त्रतासेनानी महान् चिन्तकः उत्कृष्टः शिक्षकः समाजसुधारकः च इति रूपेण स्वस्य विशिष्टां परिचितिम् अस्थापयत्। सः महात्मागान्ध
फाइल


लोकमान्यस्य बाल गंगाधर तिलकस्य जयंत्यां (23 जुलाई) विशेषः

-डॉ. लोकेश कुमार चन्देलः।

लोकमान्यः बालगङ्गाधरतिलकः महान् स्वतन्त्रतासेनानी महान् चिन्तकः उत्कृष्टः शिक्षकः समाजसुधारकः च इति रूपेण स्वस्य विशिष्टां परिचितिम् अस्थापयत्। सः महात्मागान्धिनः पूर्वमेव भारतीयराष्ट्रियकाङ्ग्रेसस्य प्रमुखनेता तथा गरमदलस्य अग्रगण्येषु नेतृषु परिगणितः आसीत्। तस्य जयन्ती प्रतिवर्षं त्रयोविंशतितमे जुलाईमासदिने आचर्यते। तस्य जन्म महाराष्ट्रप्रदेशस्य रत्नागिरिनगरे अष्टादशशतपञ्चपञ्चाशदधिकसहस्रतमवर्षस्य जुलाईमासस्य त्रयोविंशतितमे दिने अभवत्। तेन उद्घोषितम् आसीत् यत् स्वराज्यं मम जन्मसिद्धः अधिकारः अस्ति अहं तत् अवश्यमेव प्राप्स्यामि। तस्य मतम् आसीत् यत् राष्ट्रस्य स्वतन्त्रतायै सर्वप्रथमं राष्ट्रियभावनायाः धार्मिकसांस्कृतिकैक्यस्य च स्थापना अनिवार्या अस्ति। एतदर्थं तेन स्वराज्यम् स्वदेशी बहिष्कारः राष्ट्रियशिक्षा च एते चत्वारः सिद्धान्ताः स्वदेशीविचारधारया सह प्रतिपादिताः। एषा चतुःसूत्री रणनीतिः भारतीयस्वातन्त्र्यसङ्ग्रामस्य दृढां आधारशिलाम् अस्थापयत्।

राष्ट्रियचेतनायाः विकासःतिलकेन भारतीयेषु आत्मसम्मानः स्वाभिमानः राष्ट्रभक्तिः च जागरिता। तेन जनाः राजनैतिकसामाजिकदृष्ट्या जागरूकाः भवितुं प्रेरिताः। तिलकेन गणेशोत्सवः सार्वजनिकरूपेण आयोजयितुं प्रारब्धः। अस्य उद्देश्यः विभिन्नजातिवर्गसम्बद्धान् जनान् एकस्मिन् मञ्चे समानीय सामाजिकैक्यं राष्ट्रियभावनां च सुदृढां कर्तुम् आसीत्। तिलकः सम्यक् अवगतवान् यत् केवलम् अतीतस्य गौरवगानात् किमपि महत्त्वपूर्णं फलम् अवाप्तुं न शक्यते। सः जानाति स्म यत् यावत् युवाशक्तेः सुदृढः सङ्गठनः न उत्थास्यति तावत् क्रान्तेः मार्गः प्रशस्तो न भविष्यति। सः एतदपि जानाति स्म यत् भारतीययुवकेषु सुप्ता सांस्कृतिकचेतना पुनः जागरणीया अस्ति। युवाशक्तेः विना सुदृढसङ्गठनस्य कल्पना अपि कर्तुं न शक्यते। तस्मिन् काले गणेशोत्सवस्य स्वरूपम् अद्यतनस्वरूपात् सर्वथा भिन्नम् आसीत्। अष्टादशशतत्रिनवतितमे वर्षे तिलकेन पुणेनगरे सार्वजनिकगणेशोत्सवस्य आधारः स्थापितः।

ग्रामे ग्रामे नगरे नगरे च गणेशोत्सवस्य धार्मिकपरम्परा पूर्वमेव प्रचलिता आसीत्। किन्तु यदा राष्ट्रस्य स्वतन्त्रतायै यूनां सङ्गठनस्य आवश्यकता अनुभूता तदा तिलकाय गणपतिबप्पातः श्रेष्ठः धार्मिकपुरोधाः अन्यः कश्चित् नासीत्। तेन गणेशोत्सवस्य या राष्ट्रियपरम्परा प्रतिष्ठापिता सा अद्यापि द्वात्रिंशदधिकशतवर्षाणि व्यतीतानि सन्ति तथापि निरन्तरं प्रवर्तते। गणेशः गणानां स्वामी व्रातपतिः समूहदेवता च अस्ति अतः सः समूहजीवनस्य प्रतीकः मन्यते। राष्ट्रस्य विकासस्य मूलाधारः मानवश्रमस्य पूञ्जी अस्ति। अतः तिलकेन गणेशः राष्ट्रस्य आराध्यदेवतारूपेण प्रतिष्ठापितः। विघ्नहर्ता गणेशः तेषां सर्वेषां प्रियः भवति ये कर्मणि निरताः सन्तः श्रद्धां विश्वासं च स्वहृदये प्रतिष्ठाप्य निर्भयजीवनं नेतुम् इच्छन्ति।

शिवाजीमहोत्सवस्य आयोजनम्

तिलकेन महाराष्ट्रे छत्रपति शिवाजीमहाराजस्य जयन्ती सार्वजनिकरूपेण आचरितुं परम्परा प्रवर्तिता। शिवाजिमहाराजस्य जीवनचरितात् युवकेषु साहसस्य देशभक्तेः स्वाभिमानस्य च भावना विकसिताभवत्। एतत्सह तेन अष्टादशशताशीतितमे वर्षे न्यू इङ्ग्लिश स्कूल इति विद्यालयस्य स्थापनायां महत्त्वपूर्णं सहयोगं प्रदत्तम्। अनन्तरं डेक्कन एजुकेशन सोसायटी इत्यस्याः संस्थायाः स्थापनायामपि तस्य महत्त्वपूर्णा भूमिका आसीत्। तस्य मतम् आसीत् यत् राष्ट्रनिर्माणे शिक्षायाः योगदानम् अत्यन्तमहत्त्वपूर्णम् अस्ति। सः मन्यते स्म यत् शिक्षा मनुष्यं स्वतन्त्रतायाः मूल्यं सम्यग् बोधयति।

अनन्तरं जुलाईमासस्य तृतीयदिने एकोनविंशतिशताधिकाष्टमे वर्षे बालगङ्गाधरतिलकः आङ्ग्लसर्वकारेण राजद्रोहस्य आरोपेण गृहीतः। तदनन्तरं बर्मादेशस्य माण्डले नगरे स्थिते कारागारे एकोनविंशतिशताधिकाष्टमवर्षात् आरभ्य एकोनविंशतिशताधिकचतुर्दशवर्षपर्यन्तं षड्वर्षीयकारावासदण्डः तस्मै विधीयत। एकोनविंशतिशताधिकाष्टमे वर्षे एव सः षड्वर्षपर्यन्तं माण्डले कारागारं प्रेषितः।

बालगङ्गाधरतिलकस्य राजनैतिकजीवनं भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे अत्यन्तमहत्त्वपूर्णं मन्यते। स्वराज्यस्य मागं जनान्दोलनरूपेण प्रतिष्ठापयितृषु प्रमुखेषु नेतृषु सः अन्यतमः आसीत्। तिलकेन अष्टादशशतएकोननवतितमे वर्षे भारतीयराष्ट्रियकाङ्ग्रेसे प्रवेशः कृतः। प्रारम्भे एव सः काङ्ग्रेसस्य गरमविचारधारायाः प्रमुखनेता इति प्रसिद्धिम् अलभत। तस्य मतम् आसीत् यत् केवलं प्रार्थनया याचनया च स्वतन्त्रता न प्राप्यते। तेन लाला लाजपतरायः बिपिनचन्द्रपालः च सहकार्यं कृत्वा लालबालपाल इति प्रसिद्धत्रयीस्य नेतृत्वं कृतम्। तेन स्वदेशी बहिष्कारः राष्ट्रियशिक्षा स्वराज्यम् इति कार्यक्रमाणां दृढसमर्थनं कृतम्।

बङ्गविभाजनस्य विरोधः

बालगङ्गाधरतिलकेन एकोनविंशतिशताधिकपञ्चमे वर्षे बङ्गविभाजनस्य विरुद्धं व्यापकजनान्दोलनस्य नेतृत्वं कृतम्। एतदर्थं तेन विदेशीयवस्तूनां बहिष्कारः स्वदेशीयवस्तूनां उपयोगः च प्रोत्साहितः। एकोनविंशतिशताधिकसप्तमे वर्षे काङ्ग्रेसस्य सूरताधिवेशने नरमपन्थिनां गरमपन्थिनां च नेतॄणां मध्ये मतभेदाः अत्यधिकाः अभवन्। तदनन्तरं काङ्ग्रेसः द्विधा विभक्ता अभवत्।

होमरूललीगस्य स्थापना

बालगङ्गाधरतिलकेन कारागारात् प्रत्यागमनानन्तरं एकोनविंशतिशताधिकषोडशे वर्षे होमरूललीगस्य स्थापना कृता। ततः परं भारतस्य स्वशासनप्राप्त्यर्थं सञ्चालितस्य होमरूललीगान्दोलनस्य नेतृत्वं तेन कृतम्। अस्मिन्नेव वर्षे भारतीयराष्ट्रियकाङ्ग्रेसस्य मुस्लिमलीगस्य च मध्ये सम्पन्नस्य लखनौसमझौतस्य अपि तेन समर्थनं कृतम्।

तिलकेन स्वराज्यस्य मागः राष्ट्रियान्दोलनस्य प्रमुखलक्ष्यरूपेण प्रतिष्ठापितः। स्वदेशी बहिष्कारयोः आन्दोलनयोः व्यापकप्रचारः कृतः। गणेशोत्सवेन शिवाजीमहोत्सवेन च जनमानसे राष्ट्रियचेतना जागरिता। केसरी इति मराठीभाषायाः समाचारपत्रेण मराठा इति आङ्ग्लभाषायाः समाचारपत्रेण च ब्रिटिशशासनस्य नीतयः तीव्ररूपेण समालोचिताः राष्ट्रवादस्य च व्यापकः प्रचारः कृतः।

स्वदेशीविचारस्य प्रचारः

तिलकेन भारतीयनिर्मितवस्तूनाम् उपयोगः स्वदेशीयोद्योगानां प्रोत्साहनं च कर्तुम् आह्वानं कृतम्। अनेन आर्थिकस्वावलम्बनाय राष्ट्रियैक्याय च बलं प्राप्तम्। तेन धार्मिकसांस्कृतिककार्यक्रमाः सामाजिकैक्यस्य राष्ट्रियजागरणस्य च प्रभावीमाध्यमरूपेण उपयोजिताः। जनाः जातिक्षेत्रभाषाभेदान् परित्यज्य राष्ट्रहिताय कार्यं कुर्वन्तु इति प्रेरणा तेन प्रदत्ता।

स्वतन्त्रतासेनानी बालगङ्गाधरतिलकस्य प्रथमागस्तमासदिने एकोनविंशतिशतविंशतितमे वर्षे निधनम् अभवत्। किन्तु तस्य विचाराः अनन्तरकाले महात्मागान्धिनम् अन्यान् च अनेकान् राष्ट्रनेतॄन् प्रेरितवन्तः। तेन केसरी इति मराठीभाषायाः मराठा इति आङ्ग्लभाषायाः च समाचारपत्रयोः प्रकाशनम् आरब्धम्। एतयोः समाचारपत्रयोः माध्यमेन सामाजिकसमस्याः राष्ट्रियचेतना ब्रिटिशशासनस्य नीतयः च विषये जनाः जागरूकाः कृताः।

वस्तुतो वयं निश्चितरूपेण वक्तुं शक्नुमः यत् बालगङ्गाधरतिलकेन शिक्षायाः पत्रकारितायाः सामाजिकसङ्गठनस्य सांस्कृतिकजागरणस्य राष्ट्रियचेतनाविकासस्य च क्षेत्रेषु अत्यन्तमहत्त्वपूर्णं योगदानं प्रदत्तम्। तेन समाजः सुसङ्गठितः कृतः तथा स्वतन्त्रतान्दोलनाय दृढः जनाधारः निर्मितः। एतस्मात् कारणात् एव सः लोकमान्य इति उपाध्या सम्मानितः अभवत्।

(लेखकस्स्वतंत्रो वर्तते पत्रकारः।)

--------------------

Hindusthan Samachar / Dheeraj Maithani