भाजपापक्षेण कृता प्रदेश-काङ्ग्रेस-कार्यालयं परित: प्रदर्शनस्य घोषणा, काङ्ग्रेसेण कार्यकर्तृभ्यः शान्तेः पालनस्य आह्वानम्
देहरादूननगरम्, २२ जुलाईमासः (हि.स.)। उत्तराखण्डस्य राजधानी देहरादूननगरे बुधवासरे विभिन्नराजनैतिकदलानि सामाजिकसङ्गठनानि च पृथक्-पृथग्विषयान् अधिकृत्य विरोधप्रदर्शनानि करिष्यन्ति। भारतीयजनतापक्षेण विपक्षनेतुः राहुलगान्धिनः प्रधानमन्त्री-निवासात् बहिः
भाजपा—कांग्रेस लोगो।


देहरादूननगरम्, २२ जुलाईमासः (हि.स.)। उत्तराखण्डस्य राजधानी देहरादूननगरे बुधवासरे विभिन्नराजनैतिकदलानि सामाजिकसङ्गठनानि च पृथक्-पृथग्विषयान् अधिकृत्य विरोधप्रदर्शनानि करिष्यन्ति। भारतीयजनतापक्षेण विपक्षनेतुः राहुलगान्धिनः प्रधानमन्त्री-निवासात् बहिः प्रस्तावितस्य विरोध-प्रदर्शनस्य विरोधे प्रदेश-काङ्ग्रेस-कार्यालयं परित: प्रदर्शनस्य घोषणा कृता। अपरतः मुस्लिम-सेवा-सङ्गठनेन अपि गान्धी-उद्याने धरनाप्रदर्शनस्य घोषणा कृता।

भाजपापक्षस्य प्रदेश-माध्यम-प्रभारी मनवीरसिंह-चौहानः अवदत् यत् प्रदेशाध्यक्षस्य महेन्द्र-भट्टस्य नेतृत्वे पक्षस्य कार्यकर्तारः बुधवासरे अपराह्णे त्रिवादने भाजपापक्षस्य महानगर-कार्यालये समागमिष्यन्ति। ततः परं ते प्रदेश-काङ्ग्रेस-कार्यालयं परित: प्रदर्शनं करिष्यन्ति। तेन अस्मिन् कार्यक्रमे माध्यमप्रतिनिधयः अपि आमन्त्रिताः।

अपरतः प्रदेश-काङ्ग्रेसेण भाजपापक्षेण प्रस्तावितं प्रदर्शितं लोकतान्त्रिकमूल्यानां विरुद्धः दुर्भाग्यपूर्णश्च इति उक्तम्। काङ्ग्रेसेण आरोपः कृतः यत् भाजपा छात्राणां यूनां च समस्याभ्यः जनानां ध्यानं विचालयितुं विपक्षस्य स्वरं च दमनं कर्तुं प्रयतते। पक्षेन उक्तं यत् छात्राणां, यूनां जनसामान्यस्य च अधिकारसम्बद्धान् विषयान् सः निरन्तरम् उत्थापयिष्यति तथा च बदरीनाथ-द्रव्य-चौर्यप्रकरणम् अपि दृढतया उत्थापयिष्यति।

काङ्ग्रेसेण स्वकार्यकर्तृभ्यः शान्तिं, संयमम् अनुशासनं च परिपालयितुं, कस्याप्युत्तेजनायाः प्रभावे न आगन्तुं च आह्वानं कृतम्। सहैव प्रशासनात् प्रदेश-काङ्ग्रेस-कार्यालयस्य सुरक्षां सुनिश्चितां कर्तुं तथा कस्याप्यप्रियस्थितेः निवारणार्थम् आवश्यकपदानि स्वीकर्तुं प्रार्थितम्।

एतस्मिन्नन्तरे मुस्लिम-सेवा-सङ्घटनेन स्वाधिकाराणां याचनार्थं दिल्लीस्थिते जन्तर-मन्तरे प्रदर्शने उपविष्टेषु छात्रेषु जातस्य कथितस्य आरक्षक-दंडप्रहारस्य निन्दां कृत्वा बुधवासरे अपराह्णे द्विवादने देहरादूननगरस्य गान्धी-उद्याने विरोध-प्रदर्शनस्य घोषणा कृता।

सङ्गठनस्य उपाध्यक्षः आकिब-कुरैशी प्रकाशिते वक्तव्ये अवदत् यत् छात्राणां स्वरदमनस्य एषा कार्यवाही निन्दनीया अस्ति तथा च सर्वकारः यूनां समस्याः उपेक्षते। तेन उक्तं यत् सङ्घटनस्य अध्यक्षस्य नयीम-कुरैशी इत्यस्य नेतृत्वे कार्यकर्तारः महात्मा-गान्धिन: प्रतिमायाः पुरतः प्रदर्शनं कृत्वा स्वविरोधं प्रकटयिष्यन्ति।

Hindusthan Samachar / Divya Ranjan