सपा-शासनकाले भूमिदस्यवः जनान् अवञ्चयन्, वयं तु सम्मानजनकं प्रतिकरं प्रदत्तवन्तः - मुख्यमन्त्री योगी
-गोडधोइया-नालिका-परियोजनायाः स्थलीयनिरीक्षणानन्तरं जनसभायां मुख्यमन्त्रिणः सम्बोधनम् गोरखपुरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे गोरखपुरस्य महत्त्वाकाङ्क्षिण्याः ४९५ कोटिरूप्यक-मूल्यत्मक्याः गोडधोइया-नाल-प
गोड़धोइया नाला परियोजना का निरीक्षण करते मुख्यमंत्री योगी आदित्यनाथ, जनसभा को भी किया संबोधित।


गोड़धोइया नाला परियोजना का निरीक्षण करते मुख्यमंत्री योगी आदित्यनाथ, जनसभा को भी किया संबोधित।


गोड़धोइया नाला परियोजना का निरीक्षण करते मुख्यमंत्री योगी आदित्यनाथ, जनसभा को भी किया संबोधित।


-गोडधोइया-नालिका-परियोजनायाः स्थलीयनिरीक्षणानन्तरं जनसभायां मुख्यमन्त्रिणः सम्बोधनम्

गोरखपुरम्, २२ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे गोरखपुरस्य महत्त्वाकाङ्क्षिण्याः ४९५ कोटिरूप्यक-मूल्यत्मक्याः गोडधोइया-नाल-पुनरुद्धार-परियोजनायाः फातिमा-चिकित्सालयस्य समीपे तथा कारागार-परिहारमार्गस्य समीपे इति द्वयोः स्थलयोः स्थलीयनिरीक्षणम् अकरोत्। निरीक्षणानन्तरं कारागार-परिहारमार्गे आयोजितां जनसभाम् उद्दिश्य सः अवदत् यत् समाजवादी-पक्षस्य शासनकाले भूमिदस्यवः सर्वकारीयभूमिषु मिथ्या-अभिलेखान् कृत्वा जनेभ्यः वञ्चनां कृतवन्तः। भारतीयजनतापक्षस्य सर्वकारेण परियोजनया प्रभावितेभ्यः एतेभ्यः जनेभ्यः सम्मानजनकं प्रतिकरं प्रदाय न्यायः प्रदत्तः।

मुख्यमन्त्री अवदत् यत् सर्वकारः विकासकार्याणि केवलं निर्माणपर्यन्तं न सीमयति, अपितु जनहितस्य तथा तेषां सम्मानस्य अपि पूर्णं ध्यानं करोति। ये जनाः अज्ञानवशात् तादृशीः भूमीः अक्रीणन्, यासु भूमिदस्युभिः मिथ्योपायेन आधिपत्यं कृत्वा विक्रयः कृतः आसीत्, तेभ्यः सर्वकारेण विधिसम्मतरीत्या प्रतिकरं प्रदत्तम्। एतत् सर्वकारस्य संवेदन-शीलतायाः उत्तरदायित्वस्य च प्रमाणम् अस्ति।

जनसहयोगेन साकारः अभवत् पुनरुद्धारस्य स्वप्नः

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् गोडधोइया-नाल-परियोजना जन-सहयोगस्य सकारात्मक-चिन्तनस्य च परिणामः अस्ति। कस्यापि महतः विकासकार्यस्य सफलतायै जनसहभागः जागरूकता च अत्यावश्यकौ स्तः। गोरखपुरवासिनः अस्यां परियोजनायां सहयोगं प्रदाय नगरस्य जलप्लावन-समस्यायाः निवारणे महत्त्वपूर्णां भूमिकां निर्वुढवन्तः।

अधुना पञ्चदश-होरापर्यन्ता मूसलधारा-वृष्टिरपि संकटं न भवति

मुख्यमन्त्री अवदत् यत् पूर्वं गोडधोइया-नालिकायाः समीपवर्तिनः महानगरस्य उत्तरभागस्थाः सप्तदश वार्ड-इत्येते प्रतिवर्षावृष्टौ जलमग्नाः भवन्ति स्म। गृहेषु मार्गेषु च जलसञ्चयः भवति स्म, येन जनजीवनम् अस्तव्यस्तम् अभवत्। अधुना तु नालस्य पुनरुद्धारानन्तरं परिस्थितिः पूर्णतया परिवर्तिता अस्ति। समीपे पञ्चदश-होरापर्यन्तं निरन्तरं जाता मूसलधारावृष्टिरपि उत्तरक्षेत्रे कुत्रापि जलप्लावनं न उत्पादितवती। गोडधोइया-नालिका सम्पूर्णस्य क्षेत्रस्य जलं शीघ्रतया निष्कासितवान्।

नदीसदृशं स्वरूपं आधुनिकसुविधाभिः च समन्वितम्

मुख्यमन्त्री अवदत् यत् प्रायः ९.५० किलोमीटर-दीर्घा तथा १० मीटर-विस्तीर्णा गोडधोइया-नालिका आधुनिकस्वरूपेण विकसिता अस्ति। तया सह १८ किलोमीटर-दीर्घा मलजल-नलिका अपि स्थाप्यते, येन मलिनं जलं प्रत्यक्षं नालिकायां न प्रवहिष्यति। परियोजनायाः अन्तर्गतं ३६ एम.एल.डी.-क्षमतायुक्तं मलजल-शोधन-संयन्त्रं सिद्धम् अस्ति। अपरञ्च १४ सेतवः तथा ६१ एम.एल.डी.-क्षमतायुक्तं मुख्य-पम्प-केन्द्रम् अपि निर्मितम् अस्ति।

सः अवदत् यत् भविष्ये नालिकाम् उभयतः पार्श्वयोः मार्गनिर्माणं भविष्यति। तत्र रेलिङ्ग, पदपथः, आकर्षक-दीपव्यवस्था तथा सुरक्षासम्बद्धाः सर्वे आवश्यक-व्यवस्थाः अपि भविष्यन्ति, येन नागरिकाः सुरक्षितरूपेण आवागमनं कर्तुं शक्नुवन्ति तथा दुर्घटनानां सम्भावना न भविष्यति।

पञ्चाशत्-शतवर्षपर्यन्तं जलप्लावन-समस्यायाः समाधानम्, किन्तु जनानां दायित्वमपि आवश्यकम्

मुख्यमन्त्री जनान् आह्वानम् अकरोत् यत् ते नालिकायां कूर्चिकां, अपशिष्टं वा न क्षिपेयुः। यदि अस्याः परियोजनायाः सम्यक् संरक्षणं क्रियते, तर्हि अग्रिमेषु ५०–१०० वर्षेषु गोरखपुरस्य उत्तरभागे जलप्लावन-समस्या पुनः न भविष्यति। वर्षाजलं गोडधोइया-नालिकया रामगढ-तालं, तरकुलानीं च अतिक्रम्य सहजतया राप्ती-नद्यां प्रवहिष्यति। किन्तु यदि नालिकायाम् अतिक्रमणं क्रियते अथवा अपशिष्टं क्षिप्यते, तर्हि जलनिर्गमनं बाधितं भविष्यति, येन पुनः जलप्लावनं, दुर्गन्धः, रोगप्रसारश्च सम्भविष्यति।

अस्मिन् अवसरे सांसदः रविकिशनः, महापौरः डॉ. मंगलेशः श्रीवास्तवः, गोरखपुर-ग्रामीण-क्षेत्रस्य विधायकः विपिनसिंहः, भाजपायाः प्रदेशोपाध्यक्षः विधानपरिषदः सदस्यश्च डॉ. धर्मेन्द्रसिंहः, राज्यमहिला-आयोगस्य उपाध्यक्षः चारू चौधरी, भाजपायाः क्षेत्रीयाध्यक्षः विनोदरायः, महानगराध्यक्षः रमेशप्रताप-गुप्तः, मण्डलाध्यक्षौ शिशिरवर्मा प्रदीपसिंहश्च, प्राणतिवारी, आनन्दअग्रहरिः इत्यादयः बहवः जनप्रतिनिधयः, अधिकारिणः नागरिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan