पुरुष एकल वर्गे डॉ. विशाल रस्तोगी, युगल वर्गे आयुष-गौरवयोः इत्येतत् युगलम् अजयत् पुरस्कारम्
-भारत विकास परिषद शिवाजी शाखा कारयति बैडमिंटन प्रीमियर लीग इत्येतांक्रीडाम् मुरादाबादम्, 22 जुलाईमासः (हि.स.)। भारतविकासपरिषदः शिवाजीशाखया नेताजीसुभाषचन्द्रबोससोनकपुरक्रीडाङ्गणे बुधवासरे बैड्मिण्टनप्रीमियरलीग् २०२६ प्रतियोगिता सम्पन्ना। अस्या
बैडमिंटन प्रीमियर लीग के विजेता खिलाड़ी।


-भारत विकास परिषद शिवाजी शाखा कारयति बैडमिंटन प्रीमियर लीग इत्येतांक्रीडाम्

मुरादाबादम्, 22 जुलाईमासः (हि.स.)।

भारतविकासपरिषदः शिवाजीशाखया नेताजीसुभाषचन्द्रबोससोनकपुरक्रीडाङ्गणे बुधवासरे बैड्मिण्टनप्रीमियरलीग् २०२६ प्रतियोगिता सम्पन्ना। अस्यां प्रतियोगितायां पुरुषैकलवर्गे डा. विशालरस्तोगी उत्कृष्टं क्रीडाप्रदर्शनं कृत्वा विजेतृपदं प्राप्तवान्, अनुपेन्द्रसिंहः उपविजेता अभवत्। पुरुषयुगलवर्गे आयुषगौरवयोः युगलं उत्कृष्टसमन्वयेन विजेतृपदकं प्राप्तवत्।

साकेतस्य डा. रोमिलसिंघलस्य च युगलं उपविजेतृपदेन सन्तुष्टम् अभवत्। महिलैकलवर्गे याशिका विजेत्री अभवत्, ज्योतिः उपविजेत्री अभवत्। महिलायुगलवर्गे स्वातियाशिकयोः युगलं विजेतृपदं प्राप्तवत्, ज्योतिप्राचीयोः युगलं द्वितीयस्थानं प्राप्तवत्।

समापनसमारोहे शाखाध्यक्षः अनुषकुमारबंसलः क्रीडकानां प्रदर्शनस्य प्रशंसां कृत्वा अवदत् यत् एतादृशाः आयोजनाः क्रीडाभावनां स्वास्थ्यं परस्परसौहार्दं च वर्धयन्ति। अस्मिन्नवसरे रूपांशुसिंघलः, नितिनः, दीपांशुः, आशुः, रक्षितः, हेमन्तः, विवेकः तथा शाखायाः अन्ये बहवः सदस्याः अपि उपस्थिताः आसन्।

--------------

Hindusthan Samachar / Dheeraj Maithani