क्रीडको विराट काेहली पत्न्या अनुष्कया सह गुरु पूर्णिमातः पूर्वं प्रेमानंद महाराजस्य दर्शनमकरोत्
मथुरा, 22 जुलाईमासः (हि.स.)। गुरुपूर्णिमापर्वणः पूर्वं भारतीयक्रिकेटक्रीडकः विराटकोहली स्वभार्यया अनुष्काशर्मया सह बुधवासरे सन्तप्रेमानन्दस्य दर्शनपूजनार्थं मथुरां प्राप्तवान्। यमुनायाः पार्श्वे स्थिते यमुनाकुञ्जाश्रमे एकान्तवासं कुर्वन्तं सन्तप्रे
दर्शन के लिए जाते हुए विराट अैार अनुष्का


मथुरा, 22 जुलाईमासः (हि.स.)। गुरुपूर्णिमापर्वणः पूर्वं भारतीयक्रिकेटक्रीडकः विराटकोहली स्वभार्यया अनुष्काशर्मया सह बुधवासरे सन्तप्रेमानन्दस्य दर्शनपूजनार्थं मथुरां प्राप्तवान्। यमुनायाः पार्श्वे स्थिते यमुनाकुञ्जाश्रमे एकान्तवासं कुर्वन्तं सन्तप्रेमानन्दं दृष्ट्वा विराटकोहली अनुष्काशर्मा च पूजाम् अर्चनां च अकुरुताम्।

एकोनत्रिंशत्तमे जुलैमासदिने गुरुपूर्णिमायाः पावनपर्व आचरिष्यते। अस्य पूर्वमेव वृन्दावने गुरुपूर्णिमामहोत्सवस्य आरम्भः अभवत्। अस्मिन्नेव अवसरे भारतीयदलस्य क्रिकेटक्रीडकः विराटकोहली स्वगुरोः आशीर्वादं प्राप्तुं स्वभार्यया अनुष्काशर्मया सह अद्य मथुराम् आगतः। तयोः एकः दृश्यलेखः सामाजिकमाध्यमेषु व्यापकः अभवत् यस्मिन् विराटकोहली कपिशवर्णीयवस्त्रे श्वेतवर्णीयपादावरणे च दृश्यते यदा अनुष्काशर्मा श्वेतनीलवर्णीयवस्त्रे दृश्यते।

उल्लेखनीयम् अस्ति यत् विराटकोहली अतीतेषु कतिपयवर्षेषु समये समये सन्तप्रेमानन्दजीमहाराजस्य दर्शनार्थं वृन्दावनम् आगच्छति। टी ट्वेन्टी विश्वकपविजयानन्तरम् आईपीएल प्रतियोगितायाः विजयस्य अनन्तरम् अनेकाभ्यः महत्त्वपूर्णाभ्यः क्रिकेटशृङ्खलाभ्यः पूर्वं पश्चात् च सः आशीर्वादग्रहणार्थम् अत्र आगतः। सामान्यतया मन्यते यत् विराटकोहली अनुष्काशर्मा च आध्यात्मिकजीवनाय अत्यधिकं महत्त्वं ददातः स्वगुरोः मार्गदर्शनं च निरन्तरं प्राप्नुतः। उभयोः धार्मिकश्रद्धा सरलजीवनशैली च प्रायः प्रशंसकानां मध्ये चर्चाविषयः भवति।

Hindusthan Samachar / Dheeraj Maithani