Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, २२ जुलाईमासः (हि.स.)। अद्यैव ओटीटी-मञ्चे प्रदर्शिता चर्चिता ‘रक्ताञ्चल-३’ इति जालश्रृङ्खलायाः कलाकारदलम् बुधवासरे प्रातःकाले मध्यप्रदेशस्य उज्जयिन्यां स्थितं श्रीमहाकालेश्वरमन्दिरम् आगत्य प्रसिद्धायां भस्मारार्तीक्यां सहभागित्वम् अकरोत्। अभिनेता निकितिन-धीरः, क्रान्तिप्रकाश-झा तथा ‘पञ्चायत्’ इति जालश्रृङ्खलया प्रसिद्धः चन्दन-रायः बाबा महाकालस्य विशेषपूजनं जलाभिषेकं च कृत्वा तस्य आशीर्वादम् अलभन्त।
स्वीयायाः ‘रक्ताञ्चल-३’ इति जालश्रृङ्खलायाः प्रचारार्थम् इन्दौरनगरम् आगतं कलाकारदलम् मङ्गलवासरे माध्यमप्रतिनिधिभिः सह संवादं कृत्वा बुधवासरे प्रातःकाले उज्जयिनीम् आगत्य बाबा महाकालस्य दर्शनम् अकरोत्। प्रातः प्रायः चतुर्थवादने निकितिन-धीरः, क्रान्तिप्रकाश-झा तथा ‘पञ्चायत्’ इति जालश्रृङ्खलायां ‘विकास’ इति पात्रं निभावितवान् चन्दन-रायः प्रत्यक्षं मन्दिरपरिसरम् अगच्छन्। सर्वे कलाकाराः प्रायः द्वे होरे नन्दीमण्डपे उपविश्य भस्मारार्तिक्या: दर्शनम् अकुर्वन्।
भस्मारार्तिक्या: समापनानन्तरं सर्वे कलाकाराः वैदिकपरम्परानुसारं नन्दीमहाराजस्य विशेषपूजनम् अकुर्वन् तथा तस्य कर्णे स्वमनोरथम् अकथयन्। ततः परं ते रजतद्वारेण भगवान् महाकालस्य जलदुग्धाभ्यां अभिषेकं कृत्वा विधिवत् पूजार्चनां च अकुर्वन्। गर्भगृहे दर्शनपूजनानन्तरं मन्दिरप्राङ्गणे स्थितानाम् अन्येषां देवदेवीनां सन्निधावपि प्रणामम् अकुर्वन् तथा देशव्यापिनां स्वप्रशंसकानां स्वकलायाश्च सफलतार्थं प्रार्थनाम् अकुर्वन्।
दर्शनपूजनयोः अनन्तरं पत्रकारै: सह संवादं कुर्वन् अभिनेता क्रान्तिप्रकाश-झा स्वभावनाः निग्रहितुं नाशक्नोत् तथा अत्यन्तं भावुकः अभवत्। तेन उक्तं यत् बाबा महाकालस्य अलौकिकदरबारम् आगत्य यद् असीमं शान्तिं आध्यात्मिकशक्तिं च प्राप्तवान्, तस्य वर्णनं शब्दैः कर्तुं न शक्यते। कलाकारैः अपि उक्तं यत् महाकालनगर्यां आगत्य भस्मारार्तिक्यां सहभागिता तेषां जीवनस्य अविस्मरणीयः सौभाग्यपूर्णश्च क्षणः अस्ति।
Hindusthan Samachar / Divya Ranjan