Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 22 जुलाईमासः (हि.स.)।
राष्ट्रियपात्रताप्रवेशपरीक्षायाः प्रश्नपत्रप्रस्रवणविषयम् अधिकृत्य बुधवासरे लोकसभायां तीव्रः कोलाहलः अभवत्। लोकसभायाः कार्यवाही मध्याह्ने द्वादशवादने पुनः प्रारब्धायां प्रश्नपत्रप्रस्रवणस्य तथा छात्रेषु पुलिसबलस्य दंडप्रहारस्य विषयम् अधिकृत्य तीव्रः कोलाहलः अभवत्। लोकसभाध्यक्षः ओम् बिरला कांग्रेसपक्षाय तथा सत्तापक्षाय वक्तुम् अवसरं प्रदत्तवान्, तदा समाजवादीपक्षस्य अध्यक्षः अखिलेश यादवः अप्रसन्नः अभवत्।
वस्तुतः लोकसभाध्यक्षः ओम् बिरला संसदीयकार्य मन्त्रिणः किरेन रिजिजू इत्यस्य सरकारपक्षतः चर्चायाः प्रस्तावस्य अनन्तरं कांग्रेसस्य महासचिवस्य केसी वेणुगोपालस्य उत्तरं श्रुत्वा उक्तवान् यत् सर्वेषां पक्षाणां मतं प्राप्तम्। यूयम् अपि चर्चाम् इच्छथ, तेऽपि चर्चाम् इच्छन्ति, सरकारः अपि चर्चायै सज्जा अस्ति। किन्तु एवं सदनस्य दीर्घिकायां स्थित्वा चर्चा कर्तुं न शक्यते। एतस्मिन् अखिलेश यादवः सभापतिम् आत्मानं वक्तुं न अनुमन्यते इति आरोपम् अकरोत्। तेन उक्तं यत् भवता एतेषां तेषां च वक्तुम् अवसरः दत्तः, किन्तु अस्माकं विषये किम्। एषः विषयः कांग्रेससमाजवादीपक्षयोः अथवा भारतीयजनतापक्षस्य नास्ति, अपितु छात्राणाम् एव विषयः अस्ति।
अनन्तरं लोकसभाध्यक्षः ओम् बिरला लोकसभायाः कार्यवाही अद्य अपराह्णे द्विवादनपर्यन्तं स्थगितवान्। अस्मात् पूर्वं संसदीयकार्य मन्त्री किरेन रिजिजू सदने उक्तवान् यत् “अतीतेषु त्रिषु दिनेषु वयं विपक्षं चर्चायै प्रस्तावं प्रदद्मः। अहम् अद्य पुनरपि वदामि यत् सरकारः नीट प्रश्नपत्रप्रस्रवणविषये चर्चायै सज्जा अस्ति। किन्तु सदने चर्चा नियमानुसारम् एव भवति, तस्य कृते आवश्यकव्यवस्था अपि करणीया भवति।”
संसदीयकार्य मन्त्री उक्तवान्, “अहं निवेदयामि यत् चर्चा कदा भविष्यति, तस्याः अवधि का भविष्यति तथा सा केन नियमेन भविष्यति—एतस्मिन् विषये लोकसभाध्यक्षः सर्वेषां दलानां सदननेतृभिः सह चर्चां कृत्वा अस्मान् अवगतान् करोतु। सरकारः चर्चायै पूर्णतया सज्जा अस्ति।”
---------------
Hindusthan Samachar / Dheeraj Maithani