सैन्ये फील्डचिकित्सालयेषु च आयुष सेवाः शुभारब्धुं प्रस्ताव, रक्षा मंत्रिणे प्रतापराव जाधवोऽलिखत् पत्रम्
नवदिल्ली, 22 जुलाईमासः (हि.स.)। केन्द्रीय आयुषराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः तथा स्वास्थ्यपरिवारकल्याणराज्यमन्त्री प्रतापराव जाधव रक्षामन्त्री राजनाथ सिंहं प्रति पत्रं प्रेष्य देशस्य सर्वेषु सैन्यचिकित्सालयेषु क्षेत्रीयचिकित्सालयेषु च आयुष ओप
आयुष मंत्री प्रतापराव जाधव


नवदिल्ली, 22 जुलाईमासः (हि.स.)।

केन्द्रीय आयुषराज्यमन्त्री स्वतन्त्रप्रभारयुक्तः तथा स्वास्थ्यपरिवारकल्याणराज्यमन्त्री प्रतापराव जाधव रक्षामन्त्री राजनाथ सिंहं प्रति पत्रं प्रेष्य देशस्य सर्वेषु सैन्यचिकित्सालयेषु क्षेत्रीयचिकित्सालयेषु च आयुष ओपीडी तथा आयुषाधारितचिकित्सासेवाः प्रारम्भयितुं प्रस्तावं प्रदत्तवान्।

बुधवासरे प्रतापराव जाधवेन लिखिते पत्रे उक्तं यत् सशस्त्रबलानां समीपे आधुनिकचिकित्साव्यवस्था सुदृढा वर्तते, किन्तु आयुर्वेदयोगयूनानीसिद्धहोम्योपैथीप्रभृतीनां पारम्परिकचिकित्साप्रणालीनां समावेशेन सैनिकानां निवारकसंवर्धकसमग्रस्वास्थ्यसेवानां श्रेष्ठतरः लाभः भविष्यति।

तेन सूचितं यत् सम्प्रति रक्षामन्त्रालयस्य अधीनस्थेषु केवलं कतिपयेषु संस्थानेष्वेव आयुषसुविधाः उपलभ्यन्ते, यदा तु अधिकांशेषु सैन्यचिकित्सालयेषु क्षेत्रीयचिकित्सालयेषु च एतादृश्यः सेवाः न सन्ति। तस्य मते आयुषसेवानां विस्तारेण सैनिकेभ्यः निवारकस्वास्थ्यपरिचर्या, जीवनशैलीप्रबन्धनम्, पुनर्वासः तथा समग्रस्वास्थ्यसम्बद्धाः सुविधाः अधिकप्रभावीरीत्या प्राप्स्यन्ते।

प्रतापराव जाधवो रक्षामन्त्रालयम् एतस्मिन् प्रस्तावे विचारं कर्तुम् आग्रहं कृतवान्। सहैव आयुषमन्त्रालयेन अस्य कार्यान्वयनार्थं तकनीकीसहायता, विशेषज्ञमार्गदर्शनम्, संस्थागतसहयोगः तथा आवश्यकतायां सति सहमतिज्ञापनस्य एमओयू सम्पादनस्य प्रस्तावोऽपि प्रदत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani