Enter your Email Address to subscribe to our newsletters

कोलकाता, 22 जुलाईमासः (हि.स.)। पश्चिमबङ्गविधानसभायां बुधवासरे चतुर्दशवर्षानन्तरं प्रथमवारं गृहविभागस्य पर्वतीयकार्यमन्त्रालयस्य च आयव्ययपत्रकस्य विषये विस्तृता चर्चा अभवत्। मुख्यमन्त्री शुभेन्दु अधिकारी आयव्ययपत्रकस्य विषये प्रायः एकघण्टापर्यन्तं प्रत्युत्तरं दत्त्वा विधिव्यवस्थायाः सुदृढीकरणाय, पुलिसबलस्य व्यापकभर्त्यै तथा भ्रष्टाचारस्य विरुद्धं कठोरकार्यवाह्याः घोषणाम् अकरोत्।
मुख्यमन्त्री अवदत् यत् पूर्ववर्तिसर्वकारस्य कार्यकाले अधिकांशवर्षेषु गृहविभागस्य आयव्ययपत्रकं चर्चां विना एव विधानसभया अनुमोदितम्। सः अवदत् यत् वर्तमानसर्वकारः अस्य महत्त्वपूर्णविभागस्य प्रत्येकविषये पारदर्शिता उत्तरदायित्वं च सुनिश्चितुं प्रतिबद्धः अस्ति।
सः घोषितवान् यत् राज्यपुलिसबलस्य रिक्तपदानि पूरयितुं षड्विंशतिसहस्राणि नवीनकान्स्टेबलपदानि पूरयिष्यन्ते। तेषु षोडशसहस्राणां पुलिसकर्मचारिणां नियुक्तिः दुर्गापूजापूर्वमेव भविष्यति। मुख्यमन्त्री अवदत् यत् राज्यपुलिसबले एकलक्षम् एकविंशतिसहस्राणि त्रिशतानि चतुश्चत्वारिंशत् स्वीकृतपदानि सन्ति, तेषु सम्प्रति त्रिचत्वारिंशत्सहस्राणि त्रिसप्ततिपदानि रिक्तानि सन्ति। सर्वकारस्य लक्ष्यं क्रमशः सर्वाणि रिक्तपदानि पूरयित्वा पुलिसबलं अधिकसक्षमम् आधुनिकं च कर्तुम् अस्ति।
मुख्यमन्त्री नागरिकस्वयंसेवकव्यवस्थामपि प्रश्नाङ्कितवान्। सः आरोपितवान् यत् पूर्ववर्तिसर्वकारस्य काले पर्याप्तयोग्यता प्रशिक्षणं च विना बहवः नागरिकस्वयंसेवकाः नियुक्ताः। तस्य मतानुसारं अस्य व्यवस्थायाः उपयोगः राजनैतिकहितसाधनाय अवैधधनसङ्ग्रहाय च कृतः। सः अवदत् यत् राज्यस्य अधिकांशपुलिसस्थानकेषु मूलभूतसुविधानामभावः वर्तते। तस्य निवारणार्थं पुलिसनिवासगृहाणां पाकशालानां वेतनभत्तानां स्थानान्तरणनीतेः अन्यासां प्रशासनिकव्यवस्थानां च व्यापकसुधाराः क्रियमाणाः भविष्यन्ति, येन पुलिसकर्मचारिणः उत्तमं कार्यपरिवेशं प्राप्नुयुः।
भ्रष्टाचारस्य विरुद्धं सर्वकारस्य शून्यसहिष्णुतानीतिं पुनः प्रतिपादयन् मुख्यमन्त्री अवदत् यत् उत्कोचग्रहणं कुर्वतां पुलिसकर्मचारिणां विरुद्धं कठोरकार्यवाही भविष्यति। एतदर्थं विशेषनियन्त्रणकक्षः सहायता दूरभाषसेवा च प्रारभ्येते। सः अवदत् यत् कश्चन नागरिकः केवलं एकेन दूरभाषाह्वानेन स्वशिकायतिं पञ्जीकर्तुं शक्नोति तथा शिकायतिप्राप्तिमात्रेण त्वरितकार्यवाही सुनिश्चितीक्रियते।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारस्य उद्देश्यं विधिव्यवस्थायाः सुदृढीकरणेन सह पुलिसव्यवस्थां अधिकपारदर्शिनीं उत्तरदायिनीं जनोन्मुखीं च कर्तुम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani