Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, २२ जुलाईमासः (हि.स.)। उत्तराखण्डस्य राज्यपालः लेफ्टिनेण्ट् जनरल गुरमीतसिंहः (सेवानिवृत्तः) श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयस्य, बादशाहीथौल (टिहरी-गढ़वाल) स्थितस्य, कुलपतिपदे प्रो. अम्बरीशकुमारमहाजनस्य नियुक्तेः आदेशं निर्गतवान्।
राजभवनात् बुधवासरे निर्गते आदेशे उक्तम् यत् विश्वविद्यालय-अधिनियम-२०११ इत्यस्य प्रावधानानुसारं प्रो. महाजनः कार्यभारग्रहणदिनाङ्कात् आरभ्य त्रिवर्षपर्यन्तम्, अथवा अष्टषष्टितम-वर्षपर्यन्तम् (६८ वर्षाणि), अथवा अग्रिम-शासनादेशपर्यन्तम्— यद् पूर्वं भवेत्—कुलपतिरूपेण नियुक्तः अस्ति।
प्रो. अम्बरीशकुमारमहाजनः सम्प्रति हिमाचलप्रदेश-केन्द्रीय-विश्वविद्यालये धर्मशालायां पर्यावरण-विज्ञान-विभागस्य वरिष्ठ-प्राध्यापकः तथा दूरसंवेदन-भौगोलिक-सूचनातन्त्र-केन्द्रस्य निदेशकः इति रूपेण कार्यरतः अस्ति।
भूविज्ञान-विशेषज्ञात् विश्वविद्यालयस्य कुलपतिपदपर्यन्तं यात्रा
श्रीदेवसुमन-उत्तराखण्ड-विश्वविद्यालयस्य नवनियुक्तः कुलपतिः प्रो. अम्बरीशकुमार-महाजनः देशस्य प्रतिष्ठितेषु भूविज्ञान-विशेषज्ञेषु अन्यतमः अस्ति। सः हिमाचलप्रदेशस्य धर्मशालायां शिक्षां प्राप्तवान्। ततः जम्मू-विश्वविद्यालयात् परास्नातक-उपाधिं तथा चण्डीगढ़स्थितात् पंजाब-विश्वविद्यालयात् पीएच.डी.-उपाधिं प्राप्तवान्।
प्रो. महाजनः १९८५ तमे वर्षे देहरादूनस्थिते वाडिया-हिमालय-भूविज्ञान-संस्थाने वैज्ञानिकरूपेण स्वकीयं कार्यजीवनम् आरब्धवान्। तेन भूकम्प-समस्या-मूल्याङ्कनम्, भूकम्प-अध्ययनम्, भूमिस्खलन-अनुसन्धानम्, तथा दूरसंवेदन-भौगोलिक-सूचनातन्त्रस्य क्षेत्रे महत्त्वपूर्णं योगदानं कृतम्।तेन भूकम्पीय-सूक्ष्म-क्षेत्रविभाजनस्य कृते एम.ए.एस्.डब्ल्यू. तथा एच.वी.एस.आर. इति प्रविध्योः विकासे महत्त्वपूर्णं योगदानं प्रदत्तम्। तस्य वैज्ञानिक-योगदानस्य सम्मानरूपेण २०१७ तमे वर्षे राष्ट्रीय-भूविज्ञान-पुरस्कारः तस्मै प्रदत्तः।
प्रो. महाजनेन शताधिकाः शोधलेखाः प्रकाशिताः सन्ति तथा सः अनेकासु राष्ट्रीय-अन्ताराष्ट्रिय-परियोजनासु सम्बद्धः आसीत्। सः हिमाचलप्रदेश-केन्द्रीय-विश्वविद्यालये वरिष्ठ-प्राध्यापकः, भूविज्ञान-विभागाध्यक्षः तथा दूरसंवेदन-भौगोलिक-सूचनातन्त्र-केन्द्रस्य निदेशकः इति रूपेण अपि कार्यं कृतवान्।
Hindusthan Samachar / Divya Ranjan