Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, २२ जुलाईमासः (हि.स.)। राष्ट्रिय-शुद्ध-वायु-कार्यक्रमस्य सञ्चालन-समितेः सप्तम्यां सभायां मुख्यसचिवः आनन्दबर्द्धनः देहरादूने, ऋषिकेशे तथा काशीपुरे वायुगुणवत्ता-सुधारार्थं प्रभावीणि पदानि स्वीकर्तुं निर्देशान् अयच्छत्।
बुधवासरे सचिवालये आयोजितायाः सभायाः अध्यक्षतां कुर्वन् मुख्यसचिवः उक्तवान् यत् एतेषु त्रिषु नगरेषु वायुगुणवत्तायाः निरन्तरं पर्यवेक्षणं क्रियताम् तथा पी.एम.-१० एवं पी.एम.-२.५ कणानां स्तरं न्यूनीकर्तुं दृढोपायाः कार्यान्विताः स्युः।
सः पी.एम.-१० नियन्त्रणार्थं मार्गाणां स्थितेः सुधारः, मार्गाणां दृढीकरणम्, पदपथ-निर्माणम् तथा धूलिनियन्त्रणोपायेषु विशेषं ध्यानं दातुं निर्दिष्टवान्। सहैव निर्माण-ध्वस्तीकरण-अवशिष्टानां समुचित-निष्कासनार्थं स्थानीय-निकायैः उपयुक्त-स्थानानि चिह्नितानि स्युः तथा जनजागरणमपि वर्ध्यतामिति निर्दिष्टवान्।मुख्यसचिवः मार्गेषु स्थापितानां निर्माणसामग्रीणां शीघ्र-अपसारणार्थं कठोरकार्यवाहीं कर्तुं निर्दिष्टवान्। पी.एम.-२.५ स्तरस्य न्यूनीकरणाय वाहनैः उद्योगैश्च जन्यमानस्य प्रदूषणस्य नियन्त्रणं तथा प्रदूषणनियन्त्रण-नियमस्य कठोरतया पालनं सुनिश्चितं कर्तुम् अपि निर्देशः दत्तः।
सः प्रदूषणनियन्त्रण-मण्डलाय आवश्यक-तानुसारं मानवसंसाधनस्य वृद्धिं कर्तुं, यातायातस्य जाममुक्ततायै चतुष्पथानां सुधारकार्याणि शीघ्रं सम्पन्नानि कर्तुं तथा काशीपुरे पी.एम.-२.५ स्तरस्य सुधारे कारणानां अध्ययनं कृत्वा तानि अन्येषु नगरेष्वपि प्रयोक्तुं निर्देशान् अददात्।
मुख्यसचिवः राष्ट्रिय-शुद्ध-वायु-कार्यक्रमस्य अन्तर्गतं वित्तीयवर्षस्य २०२६–२७ वार्षिक-कार्ययोजनां शीघ्रं निर्माय प्रस्तोतुं निर्देशितवान्। सः जनसामान्यस्य वायुप्रदूषणविषये जागरूकतावर्धनार्थं सम्मर्दयुक्तेषु क्षेत्रेषु प्रदर्शनफलकानां माध्यमेन निरन्तरं सूचनाः प्रदर्शयितुं तथा स्मार्ट-सिटी-योजनायाः सर्वाणि प्रदर्शनफलकानि सक्रियाणि कर्तुं निर्देशान् अयच्छत्।
अस्यां सभायां प्रमुखसचिवः आर.के. सुधांशुः, उत्तराखण्ड-प्रदूषण-नियन्त्रण-मण्डलस्य सदस्यसचिवः डॉ. पराग-मधुकर-धकाते, अपरसचिवः डॉ. आनन्द-श्रीवास्तवः तथा अन्ये वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan