Enter your Email Address to subscribe to our newsletters

धर्मशालानगरम्, २२ जुलाईमासः (हि.स.)। जसवां-परागपुर-विधानसभाक्षेत्रस्य भाजपाविधायकः तथा पूर्वोद्योगमन्त्री बिक्रमसिंह-ठाकुरः देहरायाः पूर्व-विधायकस्य होशियारसिंहस्य विरुद्धं सतर्कताविभागेन पञ्जीकृतं प्रकरणं राजनैतिक-प्रतिशोधात्मककार्यवाही इति वर्णयन् मुख्यमन्त्रिणः सुखविन्द्रसिंह-सुक्खोः विरुद्धं तीव्रमालोचनाम् अकरोत्। तेन उक्तं यत् प्रदेशे इदानीं न विधिशासनं प्रवर्तते, अपितु राजनैतिक-प्रतिशोध-भावनया सर्वकारः सञ्चाल्यते। विपक्षदलस्य नेतारः चयनपूर्वकं लक्ष्यी-क्रियन्ते, यदा तु सत्तापक्षसम्बद्धेषु प्रकरणेषु सर्वकारः पूर्णतया मौनम् आलम्बते।
बुधवासरे प्रकाशिते पत्रकारवक्तव्ये बिक्रमसिंह-ठाकुरः अवदत् यत् मुख्यमन्त्री प्रदेशे दोषपूर्णां राजनैतिक-परम्परां स्थापयति, या लोकतन्त्रस्य स्वस्थ-राजनीतेश्च कृते अत्यन्तं घातका अस्ति। यदि सर्वकारः वस्तुतः भ्रष्टाचारस्य अनियमिततानां च विरुद्धं कार्यवाहीं कर्तुम् इच्छति, तर्हि अन्वेषणं समनीत्या भवेत्, न तु राजनैतिक-प्रतिशोधभावनया। अद्य या स्थितिः अस्ति, तस्यां सर्वकारस्य विरोधे स्वरम् उत्थापयतां जनानां विरुद्धं शीघ्रमेव प्राथमिकी पञ्जीक्रियते, सतर्कता-विभागस्य कार्यवाही च भवति; किन्तु सत्तापक्षसम्बद्धेषु गम्भीरप्रकरणेषु सर्वकारः नेत्रे निमीलयति।
तेन उक्तं यत् देहरा-उपनिर्वाचनकाले महिलामण्डलानां लेखेषु पञ्चाशत्-पञ्चाशत्सहस्र-रूप्यकाणि निक्षिप्तानि इति विषये भाजपया गम्भीराः सूचना: कृताः। समग्रे प्रदेशे सर्वैरपि दृष्टं यत् कथं शासकीयतन्त्रस्य निर्वाचनलाभार्थम् उपयोगः कृतः। अद्यापि तस्मिन् प्रकरणे निष्पक्षान्वेषणं न कृतम्, न कस्यचित् अधिकारिणः विरुद्धं कार्यवाही अभवत्, न च कस्यचित् उत्तरदायिनः उत्तरं प्रार्थितम्। अन्ततः मुख्यमन्त्री वदतु यत् तस्मिन् प्रकरणे सतर्कताविभागस्य सक्रियता कुतः न दृश्यते? किं विधिः केवलं विपक्षस्य कृते एव अस्ति?
तेन उक्तं यत् होशियारसिंहः बहुवर्षेभ्यः स्वकीयसंसाधनैः निर्धनेभ्यः, आवश्यकता-ग्रस्तेभ्यः असहायपरिवारेभ्यश्च निःस्वार्थ-तया साहाय्यं कुर्वन् आगतः। तस्य जनसेवाकार्यैः समग्रः प्रदेशः सुपरिचितः अस्ति। तादृशस्य व्यक्तेः कीर्तिम् अपहर्तुं शासकीयसंस्थानाम् उपयोगः लोकतन्त्रस्य अपमानम् अस्ति।
बिक्रमसिंह-ठाकुरः आरोपितवान् यत् मुख्यमन्त्री स्वस्य क्षीयमाणां राजनैतिकभूमिं निरन्तरं वर्धमानं जनाक्रोशं च दृष्ट्वा विपक्षनेतॄन् विधिप्रकरणेषु प्रवेष्टुं योजनया कार्यं करोति। तेन उक्तं यत् प्रथमं हमीरपुरस्य विधायकः आशीष-शर्मा लक्ष्यीकृतः, ततः धर्मशालायाः विधायकः सुधीर-शर्मा विविधप्रकरणैः पीडितः, इदानीं च पूर्वविधायकस्य होशियारसिंहस्य विरुद्धं सतर्कताविभागस्य उपयोगः क्रियते। एता: पृथक्-पृथक् घटना: न सन्ति, अपितु राजनैतिक-प्रतिशोधस्य सुनियोजितम् अभियानम् एव।
बिक्रमसिंह-ठाकुरः अवदत् यत् भारतीयजनतापक्षः प्रदेशसर्वकारस्य अस्याः प्रतिशोधात्मक-राजनीतेः कदापि न बिभेति।
Hindusthan Samachar / Divya Ranjan