छात्राणां स्कन्धेषु क्षुद्रराजनीतिं मा कुरुत - अनुरागसिंहठाकुरः
नवदेहली, २३ जुलाईमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री सांसदः अनुराग-सिंहठाकुरः प्रश्नपत्र-प्रस्रवण-सम्बद्ध-प्रकरणानां त्वरितनिष्पक्ष-निरीक्षणार्थं द्रुतन्यायालयानां गठन-सम्बद्धां प्रधान-मन्त्रिणः नरेन्द्रमोदिनः घोषणां संवेदनशीलनिर्णयम् इति अवदत्। सः
भाजपा सांसद अनुराग ठाकुर


नवदेहली, २३ जुलाईमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री सांसदः अनुराग-सिंहठाकुरः प्रश्नपत्र-प्रस्रवण-सम्बद्ध-प्रकरणानां त्वरितनिष्पक्ष-निरीक्षणार्थं द्रुतन्यायालयानां गठन-सम्बद्धां प्रधान-मन्त्रिणः नरेन्द्रमोदिनः घोषणां संवेदनशीलनिर्णयम् इति अवदत्। सः उक्तवान् यत् एषः महत्त्वपूर्णः निर्णयः अस्य प्रमाणम् अस्ति यत् मोदी-सर्वकारः यूनां भविष्यस्य सुरक्षायै तेषामधिकार-रक्षणाय च पूर्णतया प्रतिबद्धः अस्ति।

अनुरागसिंहठाकुरः गुरुवासरे संसद्भवन-परिसरे पत्रकारैः सह संवादं कुर्वन् विपक्षम् आह्वानम् अकरोत् यत् देशस्य युवानां स्कन्धेषु राजनीतिं कर्तुं विरमन्तु। सः विपक्षीयदलान् प्रार्थितवान् यत् ते स्वकर्तव्येभ्यः विमुखाः न भवेयुः, अपितु लोकतान्त्रिकपरम्पराणां सम्मानं कुर्वन्तः संसदि सार्थकायां रचनात्मकायां च चर्चायां सहभागं कुर्वन्तु तथा यूनां परमहिताय मिलित्वा कार्यं कुर्वन्तु। ठाकुरः उक्तवान् — विपक्षं प्रति मम निवेदनम् अस्ति यत् ते युवानां स्कन्धेषु स्वराजनीतिं मा कुर्वन्तु, चर्चातः मा पलायन्ताम्, अपितु चर्चायां सहभागं कुर्वन्तु।

सः अवदत् यत् मोदी-सर्वकारस्य दृढविश्वासः अस्ति — युवाशक्तिः एव नूतनभारतस्य महान् आधारः। एतदेव चिन्तनं प्राधान्येन स्वीकृत्य गतद्वादशवर्षेषु मोदी-सर्वकारेण यूनां समग्रकल्याणाय, सशक्तीकरणाय, नूतनावसरप्रदानाय च अनेकाः जनहितकारीयोजनाः प्रभावीरूपेण कार्यान्विताः। तेन विश्वासः व्यक्तीकृतः यत् एतैः सततप्रयत्नैः देशस्य यूनां प्रतिभायाः क्षमतायाश्च नूतना दिशा नूतना ऊर्जा च प्राप्ता।

सांसदः ठाकुरः उक्तवान् यत् मोदी-सर्वकारः देशस्य यूनां शक्तिं सामर्थ्यं च सम्यक् अवगच्छति। अतः गतद्वादशवर्षेषु युवकल्याणार्थम् अनेकाः योजनाः कार्यान्विताः। आन्दोलनरतानां छात्राणां न्यायप्राप्त्यर्थम् अद्य प्रधानमन्त्री मोदी द्रुतन्यायालयगठनस्य प्रशंसनीयं निर्णयम् अकरोत्। अस्मिन् विषये सम्बन्धित-विभागेभ्यः आवश्यककार्यवाह्याः शीघ्रं सुनिश्चितीकरणाय निर्देशाः अपि प्रदत्ताः, येन छात्रेभ्यः यथाशीघ्रं न्यायः लभेत।

सः पुनरुक्तवान् यत् प्रधानमन्त्री मोदी स्पष्टतया उक्तवान् — प्रश्नपत्र-प्रस्रवणस्य दोषिणः केऽपि न मोक्ष्यन्ते, अपितु ते स्वकृतदुष्कर्मणः कठोरतमं दण्डं प्राप्स्यन्ति।

Hindusthan Samachar / Divya Ranjan