Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 23 जुलाईमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डा हिमन्तबिस्वसरमा अवदत् यत् नागालैण्डे अभवत् मेघविदारणघटनायाः प्रभावस्य तया उत्पन्नायाः समग्रस्थितेः च वैज्ञानिकविश्लेषणं क्रियिष्यते। मुख्यमन्त्री गतायां रात्रौ जोरहाटे भग्नतटबन्धस्य निरीक्षणानन्तरं पत्रकारैः सह संवादं कुर्वन् आसीत्।
तेन उक्तं यत् जलप्लावनस्य स्थितिः सामान्यां गतिं प्राप्तायां सति उपग्रहचित्राणां माध्यमेन सम्पूर्णप्रभावितप्रदेशस्य अध्ययनं क्रियिष्यते, येन घटनायाः वास्तविककारणानि ज्ञातुं शक्यन्ते। मुख्यमन्त्री अवदत् यत् अनेन वैज्ञानिकाध्ययनेन आपदः कारणानां तस्याः प्रभावस्य च यथार्थमूल्याङ्कनं कर्तुं सहायता भविष्यति।
----------
Hindusthan Samachar / Dheeraj Maithani