मुख्यमंत्री डॉ. यादवश्चंद्रशेखर आजादस्य लोकमान्य बाल गंगाधर तिलकस्य च जयंत्याम् अनमत्
भोपालम्, 23 जुलाईमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः गुरुवासरे स्वतन्त्रतासङ्ग्रामसेनानी चन्द्रशेखरआजादस्य तथा स्वतन्त्रतासेनानेः समाजसुधारकस्य च लोकमान्यबालगङ्गाधरतिलकस्य जयन्त्यां ताभ्यां नमनं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)

भोपालम्, 23 जुलाईमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः गुरुवासरे स्वतन्त्रतासङ्ग्रामसेनानी चन्द्रशेखरआजादस्य तथा स्वतन्त्रतासेनानेः समाजसुधारकस्य च लोकमान्यबालगङ्गाधरतिलकस्य जयन्त्यां ताभ्यां नमनं कृत्वा श्रद्धाञ्जलिम् अर्पितवान्।

मुख्यमन्त्री डा यादवः अवदत् यत् स्वतन्त्रतासङ्ग्रामस्य नायकं प्रदेशस्य मृत्तिकायाः गौरवं चन्द्रशेखरआजादं जयन्त्यां सादरं नमामि। अदम्यसाहसेन मातृभूमेः प्रति अखण्डसमर्पणेन च चन्द्रशेखरआजादः स्वतन्त्रतान्दोलनाय नूतनाम् ऊर्जां प्रदत्तवान्। तस्य त्यागः स्वाभिमानः राष्ट्रभक्तेः सन्देशश्च प्रत्येकं भारतीयं देशसेवायै प्रेरयति।

मुख्यमन्त्री डा यादवः गङ्गाधरतिलकं स्मरन् अवदत् यत् तस्य विचाराः देशभक्तेः अमूल्यः स्रोतः सन्ति। राष्ट्रस्य प्रति लोकमान्यतिलकस्य सङ्घर्षः नेतृत्वम् अद्वितीययोगदानं च सदैव स्मरणीयं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani