Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्यः गुरुवासरे लखनऊ-नगरे सप्त-कालिदास-मार्गे स्थिते शासकीयनिवासे महान् क्रान्तिकारिणः अमरशहीदस्य चन्द्रशेखर-आजादस्य जयन्त्यवसरे तस्य स्मृतिचित्रे पुष्पाञ्जलिम् अर्पयित्वा श्रद्धां निवेदितवान्।
अस्मिन्नवसरे केशवप्रसाद-मौर्यः अवदत् यत् मातृभूमेः स्वतन्त्रतायै स्वाभिमानाय च तस्य त्यागः, समर्पणं, सर्वोच्चबलिदानं च सदा प्रत्येकस्य भारतीयस्य हृदये राष्ट्रभक्तेः ज्योतिं प्रज्वालयिष्यति। अद्वितीयपराक्रमस्य, अदम्यसाहसस्य, राष्ट्रभक्तेश्च प्रतीकः चन्द्रशेखर-आजादः भारतीयेतिहासस्य अमूल्य: धरोहरः अस्ति। मातृभूमेः स्वतन्त्रतायै तस्य त्यागः, साहसं, अटूटसमर्पणं च सर्वदा स्मरणीयम्।
केशवप्रसाद-मौर्यः पुनरपि अवदत् यत् चन्द्रशेखर-आजादस्य प्रेरणाप्रदं जीवनं प्रत्येकं देशवासिनं राष्ट्रहितं सर्वोपरि मन्यमानं स्वकर्तव्यपथे निरन्तरम् अग्रे गन्तुं प्रेरयति।
Hindusthan Samachar / Divya Ranjan