सीजेपी-सङ्घटनेन शुक्रवासरे देशव्यापिनः शान्तिपूर्ण-विरोधप्रदर्शनस्य आह्वानम् अकरोत्
नवदेहली, २३ जुलाईमासः (हि.स.)। सामाजिकमाध्यम-आधारितः कॉकरोच-जनतापक्षः सर्वान् आह्वानम् अकरोत् यत् शुक्रवासरे देशस्य प्रत्येकस्मिन् जनपदे एकदिवसीयं शान्तिपूर्ण-विरोधप्रदर्शनं कुर्वन्तु। अस्य मुख्योद्देश्यः “प्रत्येकं जनपदः, एकः दिवसः, एका याचना” इति
प्रतीकात्मक


नवदेहली, २३ जुलाईमासः (हि.स.)। सामाजिकमाध्यम-आधारितः कॉकरोच-जनतापक्षः सर्वान् आह्वानम् अकरोत् यत् शुक्रवासरे देशस्य प्रत्येकस्मिन् जनपदे एकदिवसीयं शान्तिपूर्ण-विरोधप्रदर्शनं कुर्वन्तु। अस्य मुख्योद्देश्यः “प्रत्येकं जनपदः, एकः दिवसः, एका याचना” इति सन्देशस्य माध्यमेन समग्रदेशे एकतायाः प्रदर्शनम् अस्ति।

सीजेपी-सङ्घटनस्य मतानुसारम् एतत् प्रदर्शनं देशव्यापिनां कथित-आरक्षक-अत्याचारस्य पीडितानां समर्थनार्थं भविष्यति। आयोजकैः देशस्य विभिन्न-छात्रसङ्घेभ्यः अन्येभ्यश्च सामाजिक-सङ्घटनेभ्यः प्रदर्शनस्य सफलतार्थं मिलित्वा कार्यं कर्तुं, आवश्यकानुमतयः प्राप्तुं, व्यवस्थासामग्रीं समुपार्जयितुं च आह्वानम् कृतम्।

अस्मिन् प्रदर्शने विरोधस्थले समवेतजन-समूहस्य पुरतः छात्राणां याचनाः प्रमुखतया पठिष्यन्ते। आरक्षक-कार्यवाह्याः कथित-अत्याचारस्य च सम्मुखिनं कृतवतः जनान् प्रति समर्थनम्, एकात्मताभावश्च प्रदर्श्यते।

उल्लेखनीयं यत् छात्रान्दोलनस्य नेतृत्वं कुर्वती सीजेपी पूर्वं “संसदं चलामः” इति यात्रायाः घोषणाम् अकरोत्। ततः २० जुलाई दिनाङ्के सहस्रशः छात्राः एकत्र समागत्य स्वविरोधं प्रकटितवन्तः। ते शिक्षा-व्यवस्थायाम् अनियमितताः, प्रश्नपत्र-प्रस्रवणप्रकरणं च विषयीकृत्य केन्द्रीय-शिक्षामन्त्रिणः त्यागपत्रस्य याचनां कुर्वन्ति। तस्मात् कालात् आरभ्य राजधान्यां परिस्थितिः अनियन्त्रिता वर्तते। अस्मिन् मध्ये आरक्षकबलस्य छात्राणां च मध्ये हिंसात्मकाः संघर्षाः अपि अभवन्।

Hindusthan Samachar / Divya Ranjan