सर्वकारः वार्तायैःसज्जः, आंदोलनकारिच्छात्र-आवासे अथवा कार्यालये आगच्छेत् : नड्डा
नव दिल्ली, 23 जुलाईमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगत्प्रकाशनड्डा गुरुवासरे उक्तवान् यत् जन्तरमन्तरे आन्दोलनरतैः छात्रैः सह वार्तालापाय केन्द्रसर्वकारः सज्जः अस्ति। तदर्थं छात्रैः तस्य निवासं वा आधिकारिककार्यालयं वा आगन्तव्यम्।

संसद्परिसरे पत्रकारैः सह संवादं कुर्वन् नड्डा अवदत्, “आम्, वयं सज्जाः स्मः। मम निवासं वा आधिकारिककार्यालयं वा आगच्छन्तु।”

तत्रैव केन्द्रीयमन्त्री पीयूषगोयलः अपि पत्रकारान् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी स्पष्टतया उक्तवान् यत् ये दोषिणः सन्ति, तेषां विरुद्धं शीघ्रन्यायालयस्य माध्यमेन कठोरदण्डः विधास्यते। अस्माकं कांग्रेसदलस्य विपक्षस्य च प्रति निवेदनम् अस्ति यत् अस्य विषयस्य राजनीतिकरणं मा कुर्वन्तु। पलायनं मा कुर्वन्तु, चर्चां कुर्वन्तु।

कॉकरोचजनतापार्टीदलस्य नेतारः जुलैमासस्य विंशतितमे दिने जेपी नड्डायाः निवासे तेन सह समुपविश्य स्वमाङ्गलिकमागपत्रं समर्पितवन्तः। ततः अनन्तरं बुधवासरे पुनः वार्तालापाय आमन्त्रिताः सन्तः सीजेपी-नेतारः उक्तवन्तः यत् ते तस्य निवासं वा कार्यालयं वा न गमिष्यन्ति, अपितु अन्यस्मिन् स्थाने वार्तालापाय सज्जाः सन्ति।

अस्य पूर्वं केन्द्रीयमन्त्री जितेन्द्रसिंहः अपि उक्तवान् आसीत् यत् आन्दोलनरतैः छात्रैः सह सर्वकारः कुत्रापि वार्तालापाय सिद्धः अस्ति।

अन्यतः सीजेपी-सूत्राणां अनुसारेण तद्दलस्य प्रतिनिधयः सर्वकारेण सह तस्य कार्यालये अथवा निवासे कस्यापि प्रकारस्य वार्तालापं न करिष्यन्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani