मुख्यमंत्री डॉ. यादवो भारतीय मजदूर संघस्य स्थापना दिवसस्य अददात् शुभकामनाम्
भोपालम्, 23 जुलाईमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः भारतीयमजदूरसङ्घस्य स्थापनादिवसे सर्वेभ्यः श्रमिकभ्रातृभ्यः श्रमिकभगिनीभ्यश्च हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। मुख्यमन्त्री डा यादवः गुरुवासरे स्वसन्देशे अवदत् यत्
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 23 जुलाईमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः भारतीयमजदूरसङ्घस्य स्थापनादिवसे सर्वेभ्यः श्रमिकभ्रातृभ्यः श्रमिकभगिनीभ्यश्च हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्।

मुख्यमन्त्री डा यादवः गुरुवासरे स्वसन्देशे अवदत् यत् श्रमेण कौशलेन समर्पणेन च नूतनभारतनिर्माणे श्रमिकाणां सहभागिता वन्दनीया अस्ति। प्रत्येकस्य श्रमिकसहचरस्य अधिकारसंरक्षणाय तेषां कल्याणाय च राज्यसरकारः प्रतिबद्धः अस्ति।

उल्लेखनीयं यत् भारतीयमजदूरसङ्घः देशस्य बृहत्तमः केन्द्रीयश्रमिकसङ्घटनः अस्ति। अस्य स्थापना २३ जुलै १९५५ तमे वर्षे मध्यप्रदेशस्य राजधानी भोपाले महान् विचारकः दत्तोपन्तठेङ्गडी इत्यनेन कृता। एषः सङ्घटनः राष्ट्रियस्वयंसेवकसङ्घस्य आनुषङ्गिकः श्रमिकसङ्घटनः अस्ति। अयं सङ्घटनः राष्ट्रहितम् उद्योगहितम् श्रमिकहितम् इति मूलमन्त्रं अनुसृत्य कार्यं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani