Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 23 जुलाईमासः (हि.स.)। हरियाणा-विद्युत्-विनियामक-आयोगस्य (एचईआरसी) अध्यक्षः नन्दलालशर्मा गुरुवासरे प्रातःकाले पञ्चकुले दिवंगतः। मस्तिष्काघातकारणात् गत-१९-जुलाई-दिने तं पञ्चकुलास्थिते निजचिकित्सालये भर्ती कृतवन्तः आसन्।
नन्दलालशर्मा २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य द्वितीयदिने हरियाणा-विद्युत्-विनियामक-आयोगस्य अध्यक्षपदस्य कार्यभारम् अधितिष्ठत्। सः मूलतः हिमाचलप्रदेशनिवासी आसीत्। एतत्पूर्वं भारतसरकारस्य विद्युत्मन्त्रालयाधीनस्य सार्वजनिकक्षेत्रस्य उपक्रमस्य एसजेवीएन-संस्थायाः अध्यक्षः तथा प्रबन्धनिदेशकः इति पदे षडधिकवर्षाणि सेवाम् अकरोत्।
सः १९८९ तमे वर्षे हिमाचलप्रदेश-प्रशासनिक-सेवायां अधिकारिरूपेण स्वीयं सेवाजीवनम् आरब्धवान्। २००८ तमवर्षपर्यन्तं सः उपविभागीयदण्डाधिकारी, सचिवः, हिमाचलप्रदेश-राज्य-विद्युत्मण्डलस्य सचिवः, भूम्यधिग्रहण-सङ्ग्राहकः, कर्मकार-प्रतिपूर्त्याः आयुक्तः, आयुर्वेद-निदेशकः, स्वास्थ्यविभागस्य विशेषसचिवः इत्यादिषु अनेकेषु पदेषु कार्यम् अकरोत्।
केन्द्रीय-ऊर्जामन्त्री मनोहरलालः नन्दलालशर्मणः निधनम् प्रति गहनं शोकं प्रकटितवान्। तेन उक्तं यत् नन्दलालशर्मणा एसजेवीएन-संस्थायाः विकासे विस्तारे च उल्लेखनीयः योगदानः कृतः। हरियाणा-विद्युत्-विनियामक-आयोगस्य अध्यक्षरूपेण विद्युत्क्षेत्रे तस्य सेवाः सदा स्मरणीयाः भविष्यन्ति।
हरियाणा-राज्यस्य मुख्यमन्त्री नायबसैनी अपि तस्य निधनम् प्रति शोकसंवेदनां व्यक्तवान्। तेन उक्तं यत् राज्यसर्वकारः ऊर्जावन्तं दूरदर्शिनं च प्रशासकीयाधिकारिणं विहाय दुःखितः अस्ति। आयोगस्य सुशासने तस्य योगदानम् अत्यन्तम् महत्त्वपूर्णम् आसीत्। अस्मिन् दुःखसमये स्वीयाः संवेदनाः शर्मा-परिवारस्य प्रति समर्पिताः इति सः अवदत्।
---------------
Hindusthan Samachar / Dheeraj Maithani