विपक्षः छात्रान् माध्यमीकृत्य राजनैतिकहितसाधने प्रयतते : केशवप्रसादमौर्यः
लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः गुरुवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी सदैव युवानः भारतस्य महत्तमां शक्तिं मन्यते। युवाशक्तिः राष्ट्रस्य बलम् अस्ति तथा विकसित-भारतस्य निर्माणे युवानः महत्त्वप
जंतर मंतर पर चल रहे प्रदर्शन और राजनीतिक दलों द्वारा किए जा रहे षड्यंत्र को लेकर बोलते उपमुख्यमंत्री केशव प्रसाद मौर्य


लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशव-प्रसादमौर्यः गुरुवासरे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी सदैव युवानः भारतस्य महत्तमां शक्तिं मन्यते। युवाशक्तिः राष्ट्रस्य बलम् अस्ति तथा विकसित-भारतस्य निर्माणे युवानः महत्त्वपूर्णां भूमिकां निर्वहन्ति इति तेन उक्तम्।

पत्रकारैः सह संवादे सः अवदत् यत् नीट-परीक्षायाः अनियमिततासम्बद्धेषु प्रकरणेषु केन्द्रसर्वकारेण त्वरितं गम्भीरतया च कार्यवाही कृता। अन्वेषणस्य आदेशः प्रदत्तः, अनेके अभियुक्ताश्च गृहीताः। दोषिणां विरुद्धं शीघ्रदण्डप्रदानार्थं फास्ट-ट्रैक-न्यायालय-व्यवस्थाऽपि कृता इति सः अवदत्।

केशवप्रसादमौर्यः उक्तवान् यत् देशस्य यूनां भविष्येन सह किमपि क्रीडनं कदापि न सह्यते। छात्रशक्तिः राष्ट्रशक्तिरस्ति, तेषां हितसंरक्षणाय केन्द्रप्रदेशसर्वकारौ पूर्णतया प्रतिबद्धौ स्तः।

सः समाजवादीपक्षं, कांग्रेसपक्षं, आम-आदमी-पक्षं च लक्ष्यीकृत्य अवदत् यत् विपक्षः छात्रानां यूनां च हितेषु न कार्यं करोति, अपितु तान् राजनैतिकलाभस्य साधनरूपेण उपयोक्तुम् इच्छति। मतभेदाः संसदि संवैधानिक-लोकतान्त्रिकरीत्या एव प्रस्तोतव्याः, न तु लोकतान्त्रिक-मर्यादानां उल्लङ्घनेन इति तेन प्रतिपादितम्।

उपमुख्यमन्त्री पुनः उक्तवान् यत् केन्द्र-प्रदेशसर्वकारौ पारदर्शीपरीक्षाव्यवस्थां प्रतिभाशालिनां छात्राणां भविष्यस्य संरक्षणं च सुनिश्चितीकर्तुं प्रतिबद्धौ स्तः। दोषिणां विरुद्धं कठोरतमा कार्यवाही भविष्यति तथा परिश्रमीणां छात्राणामधिकाराः सर्वथा संरक्ष्यन्ते।

Hindusthan Samachar / Divya Ranjan