मनीलायां पूर्वी एशिया शिखर सम्मेलने विदेश मंत्री कथितवान्, वैश्विक व्यवस्था अस्थिरा, संवादेनैव समाधानम्
नव दिल्ली, 23 जुलाईमासः (हि.स.)। दक्षिणपूर्वएशियादेशस्य फिलीपीन्सदेशस्य राजधानी मनीलानगरे गुरुवासरे आयोजिते दक्षिणपूर्वएशियाराष्ट्रसङ्घस्य (आसियान) एकविंशतितमे पूर्वएशियाशिखरसम्मेलने (ईएएस) भारतस्य विदेशमन्त्री डॉ. एस. जयशङ्करः सहभागित्वम् अकरोत्।
मनीला में 21वें पूर्वी एशिया शिखर सम्मेलन में विदेश मंत्री डॉ. एस जयशंकर।


मनीला में 21वें पूर्वी एशिया शिखर सम्मेलन में विदेश मंत्री डॉ. एस जयशंकर।


नव दिल्ली, 23 जुलाईमासः (हि.स.)। दक्षिणपूर्वएशियादेशस्य फिलीपीन्सदेशस्य राजधानी मनीलानगरे गुरुवासरे आयोजिते दक्षिणपूर्वएशियाराष्ट्रसङ्घस्य (आसियान) एकविंशतितमे पूर्वएशियाशिखरसम्मेलने (ईएएस) भारतस्य विदेशमन्त्री डॉ. एस. जयशङ्करः सहभागित्वम् अकरोत्। अस्मिन् सम्मेलने क्षेत्रीयस्थैर्यम्, सामुद्रिकसुरक्षा, म्यांमारदेशस्य स्थितिः, दक्षिणचीनसागरविवादः, पश्चिमएशियासंघर्षश्च इत्यादयः महत्त्वपूर्णाः विषयाः चर्चिताः।

सम्मेलनानन्तरं विदेशमन्त्री सामाजिकमाध्यममञ्चे ‘एक्स’ इति स्वसन्देशे अवदत् यत् वर्तमानकालीनः वैश्विकव्यवस्थाविन्यासः अस्थिरः अनिश्चितश्च वर्तते, यत्र परस्परनिर्भरता, समानहितानि, स्पर्धा तथा प्रतिद्वन्द्विता च समकालमेव दृश्यन्ते। तेन उक्तं यत् नूतनक्षमताभिः, सम्बन्धैः, चुनौतीभिश्च वैश्विकसंरचनायां व्यापकाः परिवर्तनाः जायन्ते। अद्यत्वे राजनैतिकसुरक्षाविषयौ आर्थिककार्यक्षमतायाः अपेक्षया अधिकं प्रभावशालिनौ जातौ स्तः, जोखिमग्रहणप्रवृत्तिरपि वर्धमाना अस्ति।

तेन सूचितं यत् भारतम् अस्मिन् वर्षे ईएएसस्य द्वयोः प्रमुखयोः कार्यक्रमयोः आतिथ्यं करिष्यति। तयोः कोच्चिनगरे सामुद्रिकसुरक्षासहकार्यविषये सप्तमः ईएएससम्मेलनः तथा लोथलनगरे ईएएस सामुद्रिकविरासतामहोत्सवश्च प्रमुखौ स्तः।

विदेशमन्त्री अवदत् यत् विश्वार्थव्यवस्था बहूनां संघर्षाणां प्रभावैः पीड्यते। ऊर्जासुरक्षा, खाद्यसुरक्षा, स्वास्थ्यसुरक्षा च विशेषतः ग्लोबलसाउथदेशानां कृते अत्यन्तमहत्त्वपूर्णाः विषयाः सन्ति, तेषाम् उपेक्षा न कर्तव्या। पश्चिमएशियासंघर्षस्य समाधानार्थं संवादः कूटनीतिश्च एव प्रभावी उपायौ स्तः। तेन पुनरुक्तं यत् अन्तरराष्ट्रीयसामुद्रिकमार्गाः सर्वदा सुरक्षिताः निर्बाधाश्च भवितव्याः तथा नाविकानां, नागरिकजलयानानां, आधारभूतसंरचनानां वा उपरि कश्चन आक्रमणः कदापि ग्राह्यः न भवति।

दक्षिणचीनसागरविषये भारतस्य पक्षं प्रस्तूय तेन उक्तं यत् भारतम् १९८२ तमस्य संयुक्तराष्ट्रसमुद्रविधिसन्धेः अनुरूपां, विधिबद्धाम्, प्रभावकारिणीं च आचारसंहितां समर्थयति, या सर्वेषां वैधाधिकारान् न बाधते। म्यांमारदेशस्य विषये तेन राजनैतिकसमाधानस्य आवश्यकतायाः उपरि बलं दत्तम् तथा आसियानस्य प्रयत्नानां प्रति भारतस्य समर्थनम् अपि पुनरुच्चारितम्।

सः अवदत् यत् साइबरठगीकेन्द्राणां विरुद्धं सामूहिकरूपेण दृढकार्यवाही अत्यावश्यकी अस्ति, यतः तैः बहवः भारतीयनागरिकाः प्रभाविताः सन्ति। भारतेन तेषां उद्धारे पुनर्वासे च उल्लेखनीयः योगदानः प्रदत्तः। संयुक्तराष्ट्रस्य फिलिस्तीनीशरणार्थिसहाय्यकार्यसंस्थायाः प्रमुखेषु उदयोन्मुखदातृषु भारतम् अन्यतमम् अस्ति। भारतस्य दृढमतम् अस्ति यत् द्विराष्ट्रसमाधानमेव स्थायिशान्तेः एकः यथार्थः मार्गः।

---------------

Hindusthan Samachar / Dheeraj Maithani