Enter your Email Address to subscribe to our newsletters

नवदेहली, २३ जुलाईमासः (हि.स.)। नीट-प्रश्नपत्र-प्रस्रवण-प्रकरणम् अधिकृत्य संसदः वर्षाकालीनसत्रे उभयसदनयोः गतचतुर्दिनात् गतिरोधः प्रवर्तमानः अस्ति। सत्तापक्ष-विपक्षयोः परस्परविरोधात् सदनयोः कार्यवाही सम्यक् प्रवर्तयितुं न शक्यते।
अस्य गतिरोधस्य समाप्त्यर्थं केन्द्रीयः सर्वकारः विविधराजनीतिदलानां सदन-नेतृणां सर्वदलीय-सभा आह्वातुं शक्नुयात्। अस्मिन् विषये विपक्षस्य निरन्तरविरोधेन कोलाहलेन च संसदः कार्यवाही पुनः पुनः बाधिता अभवत्।
संसदीयकार्यमन्त्री किरण रिजिजू गुरुवासरे उक्तवान् यत् केन्द्रीयः सर्वकारः अस्मिन् विषये चर्चां कर्तुं पूर्णतया सज्जः अस्ति। सः सर्वेषां दलानां सदन-नेतृभ्यः आह्वानम् अकरोत् यत् ते चर्चायाः अवधौ तथा नियमेषु सहमतिं स्थापयन्तु, येन सदसि सार्थकी चर्चा भवितुं शक्नुयात्। सर्वकारस्य अस्य प्रयत्नस्य उद्देश्यं संसदि प्रवर्तमानं गतिरोधं समाप्तुं तथा नीट-प्रश्नपत्र-प्रस्रवणवत् महत्त्वपूर्णे विषये चर्चायाः मार्गं प्रशस्तं कर्तुम् अस्ति।
विपक्षः निरन्तरम् अस्मिन् प्रकरणे विस्तृतचर्चां उत्तरदायित्वस्य च आग्रहं करोति। सर्वकारः अपि विनाशर्तं चर्चायै सज्जः अस्ति। शुक्रवासरे उभयसदनयोः कार्यवाही सुचारुरूपेण प्रवर्तयितुं सहमतिनिर्माणस्य प्रयत्नं सर्वकारः कर्तुं शक्नुयात्।
Hindusthan Samachar / Divya Ranjan