नेपाले २०० तथा ५०० रूप्यक-मूल्यवर्गीय-भारतीय-रुप्यकाणाम् उपयोगाय आधिकारिक-अनुमतिः प्रदत्ता
काठमाण्डुनगरम्, २३ जुलाईमासः (हि.स.)। नेपाल-राष्ट्र-धनागारेण २०० तथा ५०० रूप्यक-मूल्यवर्गीयानां भारतीय-रुप्यकाणां वैध-उपयोगस्य आधिकारिक-अनुमतिः प्रदत्ता। आवश्यक-प्रक्रियात्मक-व्यवस्थानां सम्पन्नतायाः अनन्तरं केन्द्रीय-धनागारेण एतेषां रुप्यकाणाम् उप
प्रतीकात्मक तस्वीर


काठमाण्डुनगरम्, २३ जुलाईमासः (हि.स.)। नेपाल-राष्ट्र-धनागारेण २०० तथा ५०० रूप्यक-मूल्यवर्गीयानां भारतीय-रुप्यकाणां वैध-उपयोगस्य आधिकारिक-अनुमतिः प्रदत्ता। आवश्यक-प्रक्रियात्मक-व्यवस्थानां सम्पन्नतायाः अनन्तरं केन्द्रीय-धनागारेण एतेषां रुप्यकाणाम् उपयोगः विनिमयश्च औपचारिकरूपेण प्रवर्तितः।

केन्द्रीय-धनागारस्य अनुसारं २०१६ तमस्य वर्षस्य नवम्बर-मासस्य ९ दिनाङ्कात् परं निर्गताः ५०० रूप्यक-पर्यन्त-मूल्यवर्गीयाणि भारतीय-रुप्यकाणि अधुना नेपाले आनयितुं भारतं नेतुं च शक्यन्ते। नेपाली-विपण्यां ५०० रूप्यक-पर्यन्त-मूल्यवर्गीयैः भारतीय-रुप्यकै: वित्तीय-व्यवहारः कर्तुं शक्यते, धनागाराश्च एतेषां रुप्यकाणां विनिमयं सुकरतया करिष्यन्ति।

गुरुवासरे नेपाल-राष्ट्र-धनागारेण निर्देशः प्रकाशितः, येन नेपाल-सर्वकारस्य निर्णयः कार्यान्वितः अभवत् तथा भारतीय-नोटानां उपयोगस्य अनुमतिः प्रदत्ता। किन्तु २०१६ तमस्य वर्षस्य नवम्बर-मासात् पूर्वं निर्गताः ५०० तथा १००० रूप्यक-मूल्यवर्गीयाणि प्राचीन-भारतीय-रुप्यकाणि अद्यापि प्रतिबन्धितानि भविष्यन्ति।

तथैव अधुना प्रचलने विद्यमानानां २००० रूप्यक-मूल्यवर्गीयानां भारतीय-रुप्यकाणां नेपाले आनयनम्, निर्गमनम् अथवा स्वसमीपे धारणम् अनुमतं न भविष्यति। केन्द्रीय-धनागारेण एतदपि स्पष्टीकृतं यत् भारतम् विना अन्यस्मात् देशात् भारतीय-मुद्रां नेपाले आनयितुं अथवा नेपालात् बहिः नेतुं अनुमतिः न भविष्यति।

उल्लेखनीयम् अस्ति यत् भारत-सर्वकारेण २०१६ तमस्य वर्षस्य नवम्बर-मासस्य ८ दिनाङ्के ५०० तथा १००० रूप्यक-मूल्यवर्गीयाणि प्राचीन-भारतीय-रुप्यकाणि अमान्यीकृतानि, यस्य प्रभावः नेपालेऽपि अभवत्।

तस्मिन् समये नेपाले उच्च-मूल्यवर्गीय-भारतीय-रुप्यकाणां व्यापकम् उपयोगम् आसीत्। नेपालस्य धनागार-व्यवस्थायां ५०० तथा १००० रूप्यक-मूल्यवर्गीय-भारतीय-रूप्यकेण सप्त-कोट्यधिक-रूप्यकाणां धनराशिः सञ्चिता आसीत्। एतेषां रुप्यकाणां विनिमयार्थं नेपालेन अनेकवारं प्रयासः कृतः, किन्तु भारत-सर्वकारेण तस्य अनुमतिः न प्रदत्ता। ततः परं नेपाले उच्च-मूल्यवर्गीय-भारतीय-रुप्यकाणाम् उपयोगः निषिद्धः कृतः।

नेपाल-राष्ट्र-धनागारस्य प्रवक्ता गुरु-पौडेलः अवदत् यत् अधुना एतादृशी व्यवस्था कृता अस्ति यत् नेपाली-बैङ्काः सामान्य-नागरिकेभ्यः एतानि रुप्यकाणि स्वीकृत्य नेपाल-राष्ट्र-धनागारं प्रापयिष्यन्ति, ततः केन्द्रीय-धनागार: तान् भारतीय-रिजर्व-धनागारस्य स्वकीय-लेखायां निक्षेपयितुं शक्नोति। अस्याः व्यवस्थायाः अनन्तरमेव उच्च-मूल्यवर्गीय-भारतीय-रुप्यकाणाम् उपयोगस्य अनुमतिः प्रदत्ता।

भारतीय-रिजर्व-धनागारेण गतवर्षे विदेशी-विनिमय-प्रबन्धन-नियमावली–२०१५ इत्यस्य संशोधनं कृत्वा नेपाल-भारतयोः मध्ये उच्च-मूल्यवर्गीय-भारतीय-रुप्यकाणाम् आवागमनस्य अनुमतिः प्रदत्ता। नवीन-नियमानुसारं १०० रूप्यक-पर्यन्त-मूल्यवर्गीयाणि भारतीय-रुप्यकाणि भारतात् नेपालं नेपालात् भारतं वा अपरिमित-संख्यया आनेतुं नेतुं च शक्यन्ते, अस्मिन् विषये कापि सीमा नास्ति।

तथैव १०० रूप्यकात् अधिक-मूल्यवर्गीय-रुप्यकाणां विषये अधिकतमं २५,००० भारतीय-रूप्यक-पर्यन्तं भारतात् नेपालम् आनयितुं अथवा नेपालात् भारतं नेतुं अनुमतिः प्रदत्ता। अनन्तरं नेपाल-सर्वकारेणापि उच्च-मूल्यवर्गीय-भारतीय-रुप्यकाणां उपयोगस्य अनुमतिः प्रदत्ता, किन्तु प्रक्रियात्मक-व्यवस्थानां अपूर्णतया तत् कार्यान्वितं नाभवत्। अधुना सर्वाः आवश्यक-प्रक्रियाः सम्पन्नाः सन्ति, अतः नेपाल-राष्ट्र-धनागारेण गुरुवासरात् एषा व्यवस्था औपचारिकरूपेण प्रवर्तिता।

Hindusthan Samachar / Divya Ranjan