विदेश मंत्री जयशंकरः मनीलायां कई देशानां बहूनां मंत्रिभिः सहाकरोन्मेलनं, क्षेत्रीय शांतिं सुरक्षां च समेत्य बहुषु प्रकरणेषु चर्चा
मनीला, 23 जुलाईमासः (हि.स.)। आसियानदेशानां विविधासु मन्त्रिस्तरीयोपवेशनेषु तथा क्वाडविदेशमन्त्रिणां सम्मेलने सहभागितार्थं द्विदिवसीययात्रायां फिलीपीन्सदेशं गतः भारतस्य विदेशमन्त्री एस्. जयशङ्करः गुरुवासरे ओमानदेशस्य, संयुक्तराज्यस्य, नीदरलैण्ड्सदेश
मनीला में पापुआ न्यू गिनी के विदेश मंत्री जस्टिन डब्ल्यू. टकाचेंको से प्रशांत द्वीप देशों के विकास सहयोग पर चर्चा, मुलाकात के दौरान।


मनीला में नीदरलैंड्स के विदेश मंत्री टॉम बेरेन्डसन से रणनीतिक साझेदारी और नए सहयोग अवसरों पर विचार-विमर्श, मुलाकात के दौरान।


मनीला में यूएनआरडब्ल्यूए के कार्यवाहक आयुक्त-जनरल क्रिश्चियन सॉन्डर्स से स्वास्थ्य और क्षमता निर्माण में भारत के योगदान पर चर्चा, मुलाकात के दौरान।


मनीला में ब्रिटेन के विदेश सचिव एड मिलिबैंड से भारत-यूके एफटीए और रणनीतिक साझेदारी पर बातचीत, मुलाकात के दौरान।


मनीला में ओमान के विदेश मंत्री सैयद बद्र बिन हमद अल बुसैदी से खाड़ी क्षेत्र की स्थिति पर चर्चा, मुलाकात के दौरान।


मनीला में फिलीपींस के राष्ट्रपति फर्डिनेंड आर. मार्कोस जूनियर से भारत-फिलीपींस रणनीतिक साझेदारी पर बल, मुलाकात के दौरान।


मनीला में ब्रुनेई के विदेश मंत्री प्रिंस अब्दुल मतीन से एक्ट ईस्ट नीति के अनुरूप सहयोग बढ़ाने पर सहमति, मुलाकात के दौरान।


मनीला, 23 जुलाईमासः (हि.स.)। आसियानदेशानां विविधासु मन्त्रिस्तरीयोपवेशनेषु तथा क्वाडविदेशमन्त्रिणां सम्मेलने सहभागितार्थं द्विदिवसीययात्रायां फिलीपीन्सदेशं गतः भारतस्य विदेशमन्त्री एस्. जयशङ्करः गुरुवासरे ओमानदेशस्य, संयुक्तराज्यस्य, नीदरलैण्ड्सदेशस्य, फिलीपीन्सदेशस्य, पापुआ न्यू गिनीदेशस्य तथा ब्रुनेईदेशस्य विदेशमन्त्रिभिः अन्यैश्च नेतृभिः सह भेटिकामकरोत्। एतासां भेटिकानां विषये सः सामाजिकमाध्यमे ‘एक्स्’ इति सञ्चारमाध्यमे सूचना प्रदत्तवान्।

जयशङ्करेण उक्तं यत् ओमानदेशस्य विदेशमन्त्रिणा सय्यद् बद्र बिन् हमद् अल् बुसैदी इत्यनेन सह खाडीप्रदेशस्य साम्प्रतिकस्थितेः विषये विचारविनिमयः कृतः। उभाभ्यां पक्षाभ्यां परस्परसंपर्कविस्ताराय अपि सहमति व्यक्ता।

संयुक्तराज्यस्य विदेशसचिवेन एड् मिलिबैण्ड् इत्यनेन सह प्रथमभेटिकायां जयशङ्करः तं नूतनदायित्वग्रहणाय अभिनन्दितवान्। भारतसंयुक्तराज्यमुक्तव्यापारसम्झौतस्य अनुकूलपरिणामान् अधिष्ठाय व्यापकसामरिकसहकार्यस्य अधिकदृढीकरणाय उभौ पक्षौ सहमतौ अभवताम्।

यूएनआरडब्ल्यूए संस्थायाः कार्यवाहकमहानिदेशकेन क्रिश्चियन सॉन्डर्स इत्यनेन सह भेटिकायां भारतस्य स्वास्थ्यक्षेत्रे तथा सामर्थ्यविकासक्षेत्रे योगदानस्य विषये चर्चा अभवत्।

नीदरलैण्ड्सदेशस्य विदेशमन्त्रिणा टॉम् बेरेन्ड्सन् इत्यनेन सह प्रधानमन्त्रिणः नरेन्द्रमोदिनः साम्प्रतिकयात्रायाः परिणामाः चर्चिताः। सामरिकसहकार्यस्य विस्तारात् अर्धचालकतन्त्रज्ञानम्, जलसम्पदः, हरितहाइड्रोजनम्, स्वास्थ्यसेवा, संस्कृतिक्षेत्रं च इत्यादिषु नूतनसहकार्यावकाशाः उद्घाटिताः।

फिलीपीन्सदेशस्य राष्ट्रपतिना फर्डिनेण्ड् आर् मार्कोस् जूनियर् इत्यनेन सह भेटिकायां जयशङ्करः भारतस्य प्रधानमन्त्रिणः शुभकामनाः निवेदितवान्। भारतफिलीपीन्ससामरिकसहकार्यस्य २०२५–२०२९ कार्ययोजनायाः प्रभावी कार्यान्वयनस्य आवश्यकता अपि प्रतिपादिता।

पापुआ न्यू गिनीदेशस्य विदेशमन्त्रिणा जस्टिन् डब्ल्यू. टकाचेन्को इत्यनेन सह द्विपक्षीयसहकार्यस्य, भारतप्रशान्तद्वीपसहकार्यस्य तथा समुद्रसुरक्षाविषयकसहकार्यस्य विषये चर्चा अभवत्। भारतं प्रशान्तद्वीपराष्ट्राणां विकासे सामर्थ्यवर्धने च निरन्तरं सहयोगं दास्यतीति पुनरुक्तम्।

ब्रुनेईदेशस्य विदेशमन्त्रिणा राजकुमारेण अब्दुल् मतीन् इत्यनेन सह भेटिकायां कृत्रिमबुद्धिमत्ता, ड्रोनतन्त्रज्ञानम्, डिजिटलप्रौद्योगिकी च इत्यादिषु उद्भवन्तीनां नवीनावकाशानां विषये विचारविनिमयः कृतः। भारतस्य ‘एक्ट् ईस्ट्’ नीतिमनुसृत्य द्विपक्षीयकार्यसूच्याः प्रवर्धनाय तथा आसियानमाध्यमेन बहुपक्षीयसहकार्यस्य सुदृढीकरणाय उभौ पक्षौ सहमतिं व्यक्तवन्तौ।

उल्लेखनीयं यत् विदेशमन्त्री एस्. जयशङ्करः २२–२३ जुलैमासयोः फिलीपीन्सदेशस्य यात्रायामस्ति। अस्यां यात्रायां सः आसियानभारतमन्त्रिस्तरीयोत्तरसम्मेलने, पूर्वएशियाशिखरसम्मेलनस्य विदेशमन्त्रिणामुपवेशने, आसियानक्षेत्रीयमञ्चस्योपवेशने तथा क्वाडविदेशमन्त्रिणां उपवेशने सहभागित्वं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani