महाकालस्य भस्म-आरार्तिके सम्मिलितः 'अनुपमा' फेम रूपाली गांगुली
उज्जैनम्, 23 जुलाईमासः (हि.स.)।लोकप्रियदूरदर्शनधारावाहिकस्य अनुपमा इत्यस्य माध्यमेन देशव्यापिनीं प्रसिद्धिं प्राप्तवती अभिनेत्री रूपाली गाङ्गुली गुरुवासरे प्रातःकाले विश्वविख्यातं श्रीमहाकालेश्वरमन्दिरम् आगता। सा बाबा महाकालस्य दिव्यभस्मआरत्यां सहभ
भस्म आरती में शामिल हुईं 'अनुपमा' फेम रूपाली गांगुली


उज्जैनम्, 23 जुलाईमासः (हि.स.)।लोकप्रियदूरदर्शनधारावाहिकस्य अनुपमा इत्यस्य माध्यमेन देशव्यापिनीं प्रसिद्धिं प्राप्तवती अभिनेत्री रूपाली गाङ्गुली गुरुवासरे प्रातःकाले विश्वविख्यातं श्रीमहाकालेश्वरमन्दिरम् आगता। सा बाबा महाकालस्य दिव्यभस्मआरत्यां सहभागिनी भूत्वा प्रायः द्वौ घण्टौ नन्दीमण्डपे उपविश्य श्रद्धाभावेन आरत्याः दर्शनम् अकरोत्।

भस्मआरत्याः अनन्तरम् अभिनेत्री भगवतः महाकालस्य जलाभिषेकं कृत्वा विधिविधानपूर्वकं पूजार्चनां सम्पन्नवती आशीर्वादं च प्राप्तवती। दर्शनानन्तरं माध्यमप्रतिनिधिभिः सह संवादं कुर्वती सा उक्तवती यत् अहम् अद्य या अस्मि तत् सर्वं बाबा महाकालस्य कृपया एव। यदा यदा मनः विचलति अथवा मानसिकशान्तेः आवश्यकता अनुभूयते तदा तदा अहं महाकालस्य शरणम् आगच्छामि। भस्मआरत्याः अनुभवः एतावान् अलौकिकः अस्ति यत् तस्य वर्णनं शब्दैः कर्तुं न शक्यते।

रूपाली गाङ्गुली उक्तवती यत् वर्षे २०२० प्रथमवारं महाकालमन्दिरम् आगत्य तस्याः श्रद्धा अधिका दृढा अभवत्। तदनन्तरं सा प्रतिद्विमासं उज्जयिनीम् आगत्य बाबा महाकालस्य दर्शनं कर्तुं प्रयतते। अस्याः पूर्वम् सा जनवरी २०२४ जनवरी २०२५ तथा प्रायः चतुर्मासपूर्वम् अपि महाकालस्य सन्निधौ उपस्थितवती। सा उक्तवती यत् महाकालस्य नगरी तस्यै सर्वदा नूतनाम् ऊर्जां मानसिकशान्तिं च प्रददाति।

कोलकातानगरे जाता रूपाली गाङ्गुली बाल्यकालादेव अभिनयक्षेत्रे प्रविष्टवती। तस्याः पिता अनिल गाङ्गुली हिन्दीचलच्चित्रोद्योगस्य प्रतिष्ठितः निर्देशकः आसीत्। अनुपमा इति दूरदर्शनधारावाहिकेन तस्यै देशव्यापिनी नूतना प्रसिद्धिः प्राप्ता। साराभाई वर्सेस साराभाई इति प्रसिद्धहास्यधारावाहिके मोनिशा इति पात्रस्य तया कृतम् अभिनयम् अद्यापि दर्शकाणां मध्ये अत्यन्तं लोकप्रियः अस्ति।

आषाढमासस्य शुक्लपक्षस्य दशमीतिथौ गुरुवासरे प्रातः चतुर्वादने श्रीमहाकालेश्वरमन्दिरस्य कपाटाः उद्घाटिताः। गर्भगृहे विराजमानानां सर्वेषां देवदेवीनां पूजनानन्तरं भगवानः महाकालस्य जलाभिषेकः कृतः। ततः पश्चात् दुग्धेन दध्ना घृतेन मधुना शर्करया फलरसैः च निर्मितेन पञ्चामृतेन अभिषेकः सम्पन्नः।

प्रथमघण्टानादानन्तरं भगवते हरिओमजलम् अर्पितम्। कर्पूरआरत्याः अनन्तरं भाङ्गेन चन्दनेन त्रिपुण्ड्रेण रजतचन्द्रेण रजतमुकुटेन च भगवतः दिव्यश्रृङ्गारः कृतः। ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य महानिर्वाणीअखाडायाः पक्षतः पवित्रभस्म समर्पितम्। धार्मिकमान्यतानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपेण भक्तेभ्यः दर्शनं ददाति।

भस्मआरत्याः उपरान्तं भगवान् महाकालः शेषनागस्य रजतमुकुटेन रजतमुण्डमालया रुद्राक्षमालया बहुमूल्याभरणैः शुष्कफलैः सुगन्धितपुष्पैः च राजस्वरूपेण अलङ्कृतः। गुलाबपुष्पैः विविधपुष्पैः च अलङ्कृताय भगवते फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। भस्म-आरत्यां देशस्य विविधप्रदेशेभ्यः आगताः शतशः श्रद्धालवः दर्शनं कृत्वा पुण्यलाभम् अलभन्त। श्रद्धालवः नन्दीमहाराजस्य कर्णे स्वमनोकामनाः अपि अकथयन्। सम्पूर्णे मन्दिरपरिसरे जय श्रीमहाकाल इति जयघोषः प्रतिध्वनितः भक्तिमयः वातावरणः च प्रत्येकं श्रद्धालुं आध्यात्मिकानुभूत्या पऐरिपूरितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani