महिला-एशियाई-चैम्पियनशिप-स्पर्धाया: सिद्धतां प्रति मन्त्रिणा सारङ्गेन अन्ताराष्ट्रिय-क्रीडा-सङ्कुलस्य निरीक्षणं कृतम्
भोपालनगरम्, २३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य क्रीडा-युवा-कल्याणमन्त्री विश्वासकैलाशसारङ्गः गुरुवासरे नाथुबरखेडा-स्थितस्य निर्माणाधीनस्य अन्ताराष्ट्रिय-क्रीडा-सङ्कुलस्य निरीक्षणं कृत्वा निर्माणकार्याणां तथा प्रस्तावितायाः महिला-एशियाई-चैम्पियनशिप
मंत्री विश्वास कैलाश सारंग ने नाथुबरखेड़ा स्थित अंतरराष्ट्रीय स्पोर्ट्स कॉम्पलेक्स का किया निरीक्षण


मंत्री विश्वास कैलाश सारंग ने नाथुबरखेड़ा स्थित अंतरराष्ट्रीय स्पोर्ट्स कॉम्पलेक्स का किया निरीक्षण


मंत्री विश्वास कैलाश सारंग ने नाथुबरखेड़ा स्थित अंतरराष्ट्रीय स्पोर्ट्स कॉम्पलेक्स का किया निरीक्षण


मंत्री विश्वास कैलाश सारंग ने नाथुबरखेड़ा स्थित अंतरराष्ट्रीय स्पोर्ट्स कॉम्पलेक्स का किया निरीक्षण


भोपालनगरम्, २३ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य क्रीडा-युवा-कल्याणमन्त्री विश्वासकैलाशसारङ्गः गुरुवासरे नाथुबरखेडा-स्थितस्य निर्माणाधीनस्य अन्ताराष्ट्रिय-क्रीडा-सङ्कुलस्य निरीक्षणं कृत्वा निर्माणकार्याणां तथा प्रस्तावितायाः महिला-एशियाई-चैम्पियनशिप-स्पर्धाया: सिद्धतानां समीक्षाम् अकरोत्।

मन्त्रीणा अधिकारिभिः निर्माणसंस्थायाः प्रतिनिधिभिश्च सह क्रीडा-अधोसंरचनायाः, सुरक्षाव्यवस्थायाः, क्रीडकानां सुविधानां तथा निर्माणकार्यस्य प्रगतेः समीक्षा कृता। सर्वाणि कार्याणि निर्धारितसमये उच्चगुणवत्तया अन्ताराष्ट्रियमानकानुसारं सम्पादयितुं निर्देशाः अपि प्रदत्ताः।

सारङ्गः अवदत् यत् क्रीडा-सङ्कुलस्य प्रथमचरणस्य शीघ्रमेव लोकार्पणं भविष्यति। तदनन्तरम् एथलेटिक्स-हॉकी-पादकन्दूक-क्रीडाणां गतिविधयः आरप्स्यन्ते। एताः सुविधाः प्रदेशस्य क्रीडकाणां विश्वस्तरीय-प्रशिक्षणाय राष्ट्रिय-अन्ताराष्ट्रिय-प्रतियोगितानां सिद्धतायै च साहाय्यं करिष्यन्ति।

महिला-एशियाई-चैम्पियनशिपस्पर्धाया: सिद्धतां समीक्ष्य मन्त्री निर्देशान् अयच्छत् यत् प्रतियोगितायाः पूर्वमेव क्रीडापथः, हॉकी-टर्फ, पादकन्दूक-प्रांगणम्, परिवर्तनकक्षाः, चिकित्सासुविधाः, प्रेक्षकदीर्घाः, प्रकाशव्यवस्था, सुरक्षा, पेयजलम्, वाहनस्थापनस्थानं तथा अन्याः आवश्यकसुविधाः समये सम्पूर्णाः क्रियन्ताम्। गुणवत्तायाः समयसीमायाश्च पालनं कठोरतया सुनिश्चितं भवेदिति अपि तेन उक्तम्।

Hindusthan Samachar / Divya Ranjan