एसजेवीएन-निर्माण्याः पूर्वाध्यक्ष-प्रबन्धनिदेशकस्य नन्दलाल-शर्मणः निधनं प्रति मुख्यमन्त्री सुक्खू शोकं व्यक्तवान्
शिमलानगरम्, २३ जुलाईमासः (हि.स.)। हरियाणा-विद्युत्-विनियामक-आयोगस्य अध्यक्षः तथा एसजेवीएन-निर्माण्याः पूर्वाध्यक्षः प्रबन्धनिदेशकश्च नन्दलाल-शर्मा दिवंगतः। तस्य निधनवार्ता अत्यन्तं दुःखदा अस्ति। तस्य निधनात् ऊर्जा-क्षेत्रस्य अपूरणीया क्षतिः जाता। ह
नंद लाल शर्मा।


शिमलानगरम्, २३ जुलाईमासः (हि.स.)। हरियाणा-विद्युत्-विनियामक-आयोगस्य अध्यक्षः तथा एसजेवीएन-निर्माण्याः पूर्वाध्यक्षः प्रबन्धनिदेशकश्च नन्दलाल-शर्मा दिवंगतः। तस्य निधनवार्ता अत्यन्तं दुःखदा अस्ति। तस्य निधनात् ऊर्जा-क्षेत्रस्य अपूरणीया क्षतिः जाता। हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंह-सुक्खू नन्दलाल-शर्मणः निधनं प्रति शोकं व्यक्तवान्।

मुख्यमन्त्री स्वशोकसन्देशे अवदत् यत् नन्दलाल-शर्मणा स्वदीर्घप्रशासनिक-व्यावसायिकजीवने ऊर्जा-क्षेत्रस्य विकासाय उल्लेखनीयं योगदानं प्रदत्तम्। तस्य निधनं सार्वजनिकजीवनस्य ऊर्जा-क्षेत्रस्य च कृते महती हानिः अस्ति।

मुख्यमन्त्री दिवंगतात्मनः शान्त्यर्थम् ईश्वरं प्रार्थयन् अवदत्— ईश्वरः दिवंगतात्मानं स्वश्रीचरणयोः स्थानं ददातु तथा शोकसन्तप्तपरिवाराय अस्याम् अपारदुःखस्य घटिकायां धैर्यं संबलं च प्रददातु।

मुख्यमन्त्री शोकसन्तप्तपरिवारं प्रति स्वगाढसंवेदनाः व्यक्तीकृत्य अवदत् यत् अस्मिन् कठिनकाले प्रदेशसर्वकारः तेषां दुःखे सहभागी अस्ति।

Hindusthan Samachar / Divya Ranjan