नेपाले शिक्षामन्त्रिणः विरुद्धं विश्वविद्यालये प्रदर्शनम्, त्यागपत्रस्य याचना
काठमाण्डुनगरम्, २३ जुलाईमासः (हि.स.)। नेपालस्य शिक्षामन्त्रिणः सस्मित-पोखरेलस्य विरुद्धं अद्य विश्वविद्यालये विरोध-प्रदर्शनम् अभवत्। प्रदर्शनकारिणः शिक्षामन्त्रिणः त्यागपत्रस्य याचनां कुर्वन्तः आसन्। घोषणाभिः सह प्रदर्शनं कुर्वतां पञ्च जनान् आरक्षक
नेपाल में शिक्षा मंत्री के खिलाफ प्रदर्शन


काठमाण्डुनगरम्, २३ जुलाईमासः (हि.स.)। नेपालस्य शिक्षामन्त्रिणः सस्मित-पोखरेलस्य विरुद्धं अद्य विश्वविद्यालये विरोध-प्रदर्शनम् अभवत्। प्रदर्शनकारिणः शिक्षामन्त्रिणः त्यागपत्रस्य याचनां कुर्वन्तः आसन्। घोषणाभिः सह प्रदर्शनं कुर्वतां पञ्च जनान् आरक्षकदलम् अभिरक्षायां गृहीतवान्।

शिक्षामन्त्री पोखरेलः गुरुवासरे विश्वविद्यालयस्य सप्तषष्टितमे वार्षिकोत्सवे आयोजिते कार्यक्रमे सहभागितार्थं कीर्तिपुरम् आगतः आसीत्। अस्मिन्नेव काले कार्यक्रमस्थलात् बहिः मन्त्रिणः विरुद्धं घोषणाः कुर्वतः पञ्च जनान् आरक्षकदलेन अभिरक्षायां गृहीताः। काठमाण्डु-जनपद-आरक्षक-परिसरस्य एस.पी. पवनकुमार-भट्टराई एतस्य पुष्टिं कृतवान्।

प्रदर्शने सहभागीभूताः युवानः “नेपो बेबी मुर्दाबाद” तथा “मेरिटोक्रेसी लागू करो” इत्यादीन् घोषान् उद्घोषयन्तः तस्य त्यागपत्रस्य याचनाम् अकुर्वन्।

Hindusthan Samachar / Divya Ranjan