विपक्षस्य राजनैतिकतः ऐतिहासिकचर्चातः आत्मरक्षणम् - नितिन नवीनः
नव दिल्ली, 23 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) अध्यक्षः नितिन नवीनः गुरुवासरे कांग्रेसदलं प्रति तीक्ष्णं प्रहारं कुर्वन् अवदत् यत् समग्रः विपक्षः चर्चातः पलायते, यतः तेषां ज्ञातमस्ति यत् यदा एव ते सदनस्य पटलम् आगमिष्यन्ति तदा तेषां द
भाजपा अध्यक्ष नितिन नवीन


नव दिल्ली, 23 जुलाईमासः (हि.स.)।

भारतीयजनतापक्षस्य (भाजपा) अध्यक्षः नितिन नवीनः गुरुवासरे कांग्रेसदलं प्रति तीक्ष्णं प्रहारं कुर्वन् अवदत् यत् समग्रः विपक्षः चर्चातः पलायते, यतः तेषां ज्ञातमस्ति यत् यदा एव ते सदनस्य पटलम् आगमिष्यन्ति तदा तेषां द्विमुखं चरित्रं देशस्य जनतायाः युवानां च पुरतः पूर्णतया प्रकटीभविष्यति।

संसदः बहिः माध्यमप्रतिनिधिभिः सह वार्तालापं कुर्वन् सः विपक्षं प्रति मुक्तां चुनौतीम् अददात् यत् सदनस्य पटलम् आगत्य नीट् सहितं छात्रैः युवभिः च सम्बद्धेषु सर्वेषु विषयेषु मुक्ततया चर्चां कुर्वन्तु। एनडीए सरकारः सर्वेषु विषयेषु संवादं कर्तुं प्रत्येकस्य प्रश्नस्य उत्तरं दातुं च पूर्णतया सज्जा अस्ति।

सः अवदत् यत् राहुलगान्धिनः विपक्षस्य च राजनैतिकः इतिहासः चर्चातः पलायनस्य एव अस्ति। एतदेव कारणं यत् ते सदने वादविवादस्य सामना कर्तुं स्थाने ततः दूरं पलायन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani