Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 जुलाईमासः(हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अद्य 'एक्स्' सामाजिकमाध्यमे साम्भाषिकसुभाषितम् असाझयत्। तस्मिन् सुभाषिते जीवात्मनः परमचैतन्यस्य च मध्ये विद्यमानः गम्भीरः आध्यात्मिकः ब्रह्माण्डीयश्च सम्बन्धः निरूपितः।
सुभाषितं-
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषः सर्वानुभूः। यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषः सर्वानुभूः॥
अस्य भावार्थः अस्ति यत् यः परमः शक्तिमान् शाश्वतश्च सत्यस्वरूपः विस्तीर्णे आकाशे अन्तरिक्षे च सर्वत्र व्याप्तः अस्ति, स एव अस्माकम् आत्मनि अपि विराजते। अतः यद् जीवे, प्रत्येके कणे च विद्यमानम् अस्ति, तदेव सम्पूर्णे ब्रह्माण्डेऽपि विद्यमानम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani