Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 जुलाईमासः (हि.स.)।नीटपरीक्षाप्रश्नपत्रप्रस्रवणप्रकरणं, छात्रेषु पुलिसकार्यवाही, शिक्षामन्त्री धर्मेन्द्रप्रधानस्य त्यागपत्रमिति विषयान् अधिकृत्य कांग्रेसदलस्य महासचिवा प्रियङ्कागान्धीवाड्रा केन्द्रसर्वकारम् आलोचितवती। सा अवदत् यत् लोकतन्त्रस्य इतिहासे प्रथमवारम् एतादृशी परिस्थिति दृश्यते, यत्र सत्तापक्षस्य सांसदाः स्वयमेव संसद्भवनस्य बहिः प्रदर्शनं कुर्वन्ति। एषा सर्वकारः अत्यन्तं दुर्बला अस्ति, या संसदस्य कार्यसञ्चालनमपि सम्यक् कर्तुं न शक्नोति।
गुरुवासरे संसद्भवनपरिसरे पत्रकारैः सह संवादं कुर्वन्ती प्रियङ्कागान्धीवाड्रा अवदत् यत् युवानां न्यायोचितमाङ्गल्यानां पूर्त्यर्थं तेषामुपरि अत्याचारः क्रियते। तेषु लाठीप्रहारः अश्रुवायोः प्रयोगश्च क्रियते। प्रधानमन्त्री नरेन्द्रमोदी प्रत्येकस्य सफलतायाः श्रेयः स्वयमेव गृह्णाति, मङ्गलग्रहगमनस्य वा ओलम्पिकक्रीडासु पदकप्राप्तेः वा, किन्तु प्रश्नपत्रप्रस्रवणस्य उत्तरदायित्वं किमर्थं न स्वीकरोति।
सा अवदत् यत् गतदशवर्षेषु द्विपञ्चाशदधिकशतं (१५२) प्रश्नपत्रप्रस्रवणप्रकरणानि अभवन्, किन्तु एकोऽपि दोषी दण्डितः न अभवत्। एतस्य उत्तरदायित्वमपि तेषामेव अस्ति।
प्रियङ्कागान्धीवाड्रा पुनरवदत् यत् प्रधानमन्त्री सामाजिकमाध्यमेषु लिखति यत् तस्मै बालकानां चिन्ता अस्ति, किन्तु रात्रौ तेषामेव बालकानामुपरि अश्रुवायुः प्रक्षिप्यते, ते च प्रह्रियन्ते। यदि प्रधानमन्त्री प्रत्येकस्य उपलब्धेः श्रेयः स्वीकरोति, तर्हि इदानीं उत्तरदायित्वमपि तेन स्वीकर्तव्यम्। सहस्रशः छात्राः मार्गेषु सन्ति, अन्तर्जालसेवा निरुद्धा अस्ति, तेषामुपरि लाठीप्रहारः क्रियते। यदि एकस्मै अपि छात्राय किञ्चिदनिष्टं भवेत्, तर्हि तस्य उत्तरदायित्वं प्रधानमन्त्री वक्ष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani