Enter your Email Address to subscribe to our newsletters

लखनऊ, 23 जुलाई (हि.स.)। उत्तरप्रदेशस्य पशुधनदुग्धविकासमन्त्री धर्मपालसिंहः उक्तवान् यत् समाजवादिपक्षस्य जनैः नवीदिल्लीनगरे यथा कोलाहलः कृतः तेन मम चोरः स्वयमेव कोलाहलं करोति इति लोकोक्तिः स्मृतिपथमागता।
मन्त्री धर्मपालसिंहः गुरुवासरे स्वसामाजिकमाध्यमलेखे अलिखत् यत् एते एव निर्लज्जाः जनाः सन्ति ये उत्तरप्रदेशस्य बहूनां सन्ततीनां भविष्यं नष्टवन्तः। नकलस्य प्रश्नपत्रप्रस्रवणस्य च सम्यक् संगठितं जालं संचालयन् सैफईसिण्डिकेट् इति समूहः कथमद्य केवलं सत्ताप्राप्त्यर्थं राष्ट्रस्य विभाजनाय उद्यतः अभवत्। यदा कल्याणसिंहेन नकलविरोधीविधिः प्रवर्तितः तदा एषः समाजवादिपक्षः सम्पूर्णे प्रदेशे विद्यार्थिनां नकलकारणार्थं महान् कोलाहलं कृतवान्। अनन्तरं स्वर्गीयमुलायमसिंहयादवस्य नेतृत्वे समाजवादिपक्षः यदा सत्तायामागतः तदा शपथग्रहणात् त्रिंशन्मिनिटानामन्तरे एव नकलविरोधीविधिः प्रदेशात् प्रत्याहृतः।
पशुधनमन्त्री अलिखत् यत् समाजवादिपक्षस्य प्रमुखः अस्मादपि अधिकं अग्रे गतवान्। सैफईसिण्डिकेट् इत्यस्य विस्तारं कृत्वा तेन उत्तरप्रदेशलोकसेवायोगः अपि भ्रष्टः कृतः। सर्वान् नियमान् उपेक्ष्य स्वीयं जनम् एव अध्यक्षपदे नियुक्तवान्। द्विसहस्रपञ्चदशतमे वर्षे पीसीएस इति पवित्रपरीक्षायाः प्रश्नपत्रस्य प्रस्रवणम् अकारयत्।
धर्मपालसिंहः उक्तवान् यत् तादृशाः परिस्थितयः आसन् यत् एतैः उत्तरप्रदेशलोकसेवायोगः अपि सैफईसिण्डिकेट् इत्यस्य भागः कृतः तथा नियुक्तयः परिवारस्य अनुशंसापत्रेण एव क्रियमाणाः आसन्। वस्तुतः एतदेव तत् सैफईसिण्डिकेट् अस्ति यत् दशकैः यावत् उत्तरप्रदेशे नकलम् प्रश्नपत्रप्रस्रवणम् सॉल्वरगैङ्ग् मुन्नाभाईगैङ्ग् तथा नियुक्तभ्रष्टाचाराणां समग्रं तन्त्रं संचालयति स्म।
-------------
Hindusthan Samachar / Dheeraj Maithani