नीटपरीक्षाप्रकरणे चर्चायै सज्जः सर्वकारः, परंतु कांग्रेसदलेन अनुबंधास्स्थापिताः : किरेन रिजिजूः
नवदिल्ली, 23 जुलाईमासः (हि.स.)। राज्यसभायां गुरुवासरे प्रश्नपत्रप्रसारणप्रकरणम् अधिकृत्य जातस्य कोलाहलस्य मध्ये केन्द्रीयसंसदीयकार्यमन्त्री किरेन रिजिजू उक्तवान् यत् एतस्मिन् विषये चर्चां कर्तुं शासनं पूर्णतया सज्जम् अस्ति किन्तु काङ्ग्रेसदलेन चर
केंद्रीय संसदीय कार्य मंत्री किरेन रिजीजू


नवदिल्ली, 23 जुलाईमासः (हि.स.)।

राज्यसभायां गुरुवासरे प्रश्नपत्रप्रसारणप्रकरणम् अधिकृत्य जातस्य कोलाहलस्य मध्ये केन्द्रीयसंसदीयकार्यमन्त्री किरेन रिजिजू उक्तवान् यत् एतस्मिन् विषये चर्चां कर्तुं शासनं पूर्णतया सज्जम् अस्ति किन्तु काङ्ग्रेसदलेन चर्चायाः पूर्वं कतिपयाः शर्ताः स्थापिताः।

रिजिजू उक्तवान् यत् शासनं सर्वाणि च दलानि नीट परीक्षायाः प्रश्नपत्रप्रसारणप्रकरणे चर्चां कर्तुं सम्मतानि आसन् किन्तु राज्यसभायां विपक्षनेता मल्लिकार्जुन खरगेस्य नेतृत्वे काङ्ग्रेसदलेन चर्चायाः पूर्वं शर्ताः स्थापिताः। किरेन रिजिजू उक्तवान् यत् अस्य विषयस्य राजनीतिकरणं न कर्तव्यम्। अस्मिन् विषये कापि शर्ता न स्थापनीया।

सः उक्तवान् यत् शासनम् उभयोः सदनोः अस्य विषयस्य राजनीतिकरणं विना चर्चाम् इच्छति। रिजिजू प्रधानमन्त्रिणः नरेन्द्रमोदिनः तस्य वक्तव्यस्य अपि उल्लेखम् अकरोत् यस्मिन् प्रश्नपत्रप्रसारणप्रकरणेषु दोषिणां शीघ्रं कठोरदण्डप्रदानार्थं द्रुतन्यायालयानां स्थापनायाः घोषणा कृता। रिजिजू उक्तवान् यत् सभायाः सभापतिः चर्चायाः समयं निर्धारयतु। वयम् अद्यैव चर्चायै सज्जाः स्मः।

अस्य उत्तरं दत्त्वा राज्यसभायाः विपक्षनेता मल्लिकार्जुन खरगे उक्तवान् यत् प्रधानमन्त्रिणः अद्यतनं वक्तव्यं उत्तेजकं वर्तते। सः काङ्ग्रेसदलस्य पक्षं पुनरुक्तवान् यत् निष्पक्षचर्चायै केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः स्वपदात् त्यागपत्रं दद्यात्। अस्मिन् विषये सदने तीव्रः कोलाहलः अभवत्। ततः सभापतिः सीपी राधाकृष्णन् राज्यसभायाः कार्यवाहीं मध्याह्नद्वादशवादनपर्यन्तं स्थगितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani