Enter your Email Address to subscribe to our newsletters



लखनऊ, 23 जुलाईमासः (हि.स.)।
भारतीयजनतापक्षः भाजपया सन्तरविदासस्य षट्पञ्चाशदधिकषट्शततमजयन्त्याः अवसरे जुलैमासस्य एकोनत्रिंशत्तमे दिनात् सम्पूर्णप्रदेशे समरसतासङ्कल्पाभियानम् आरप्स्यते। अस्मिन् काले प्रदेशस्य सर्वेषु मण्डलेषु सामूहिकारार्तिक्यम्, सत्सङ्गः, गोष्ठ्यः च आयोजिष्यन्ते। प्रदेशव्यापिनां कार्यक्रमाणां सुचारुसञ्चालनार्थं भाजपया विश्वेश्वरैयाप्रेक्षागृहे गुरुवासरे कार्यशालायाः आयोजनं कृतम्।
समरसतासङ्कल्पाभियानस्य कार्यशालायाः शुभारम्भः भारतीयजनतापक्षस्य अनुसूचितजातिमोर्चस्य राष्ट्रियाध्यक्षः लालसिंहार्यः, प्रदेशभाजपाध्यक्षः पङ्कजचौधरी, प्रदेशमहामन्त्री सङ्घटनस्य धर्मपालसिंहः च दीपप्रज्वालनेन अकुर्वन्। अस्यां कार्यशालायां प्रदेशभाजपायाः सर्वे पदाधिकारी अनुसूचितजातिमोर्चस्य पदाधिकारीणश्च आमन्त्रिताः। प्रदेशमहामन्त्री सङ्घटनस्य धर्मपालसिंहः कार्यशालायां समरसतासङ्कल्पाभियानस्य रूपरेखां प्रस्तुतं करिष्यति।
भाजपायाः प्रदेशमन्त्री राहुलवाल्मीकि अवदत् यत् वर्तमानकाले यदा विभाजनकारीशक्तयः समाजं जातिवर्गाधारेण विभक्तुं प्रयतन्ते तदा अस्माभिः सन्तशिरोमणेः रविदासस्य जीवनसन्देशः सम्यक् अवगन्तव्यः, समाजस्य एकतायै समरसतायै च कार्यं करणीयम्। अस्मिन् अवसरे समाजकल्याणमन्त्री असीमरुणः, प्रदेशमहामन्त्री गीताशाक्या, प्रदेशोपाध्यक्षा प्रियङ्कारावत्, प्रदेशोपाध्यक्षः बृजबहादुरः, अवधक्षेत्रस्य क्षेत्रीयाध्यक्षः अवधेशद्विवेदी, प्रदेशमन्त्री महामेघानागरः, प्रदेशमन्त्री शिवभूषणसिंहः प्रमुखतया उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani