Enter your Email Address to subscribe to our newsletters

चतुर्थांश-अन्त्यस्पर्धातः अभियानस्य आरम्भः भविष्यति
नवदेहली, २३ जुलाईमासः (हि.स.)। जापानदेशस्य आइची-नागोया-नगरे आयोज्यमानानाम् एशियाई-क्रीडा-२०२६ अन्तर्गतस्य पुरुष-महिला-क्रिकेट-प्रतियोगितयोः कार्यक्रमः गुरुवासरे घोषितः। गत-विजेता भारतस्य पुरुष-महिला-दलयोः उभयोरपि वरीयता प्रदत्ता अस्ति। अतः उभे अपि दले प्रत्यक्षतया चतुर्थांश-अन्त्यस्पर्धातः स्वीयम् अभियानम् आरभेते।
महिला-क्रिकेट-प्रतियोगिता १७ सितम्बरमासतः २२ सितम्बरमासपर्यन्तं भविष्यति, पुरुष-क्रिकेट-प्रतियोगिता च २४ सितम्बरमासतः १ अक्टोबर-मासपर्यन्तम् आयोज्यते। भारतेन गत-एशियाई-क्रीडासु पुरुष-महिला-वर्गयोः उभयत्र स्वर्णपदकं प्राप्तम् आसीत्। अस्मिन् वर्षेऽपि भारतीय-दलम् स्वीयस्य विजेतृपदस्य रक्षणार्थं स्पर्धिष्यते।
महिला-वर्गे जापानदेशेन सह प्रथमा स्पर्धा
महिला-चतुर्थांश-अन्त्यस्पर्धायां भारतस्य स्पर्धा जापानदेशेन सह भविष्यति। अन्यासु चतुर्थांश-अन्त्यस्पर्धासु बाङ्ग्लादेशस्य चीनदेशेन सह, श्रीलङ्कायाः मलेशिया-देशेन सह, पाकिस्तानस्य थाइलैण्डदेशेन सह च स्पर्धा भविष्यति।
यदि भारतीय-दलं चतुर्थांश-अन्त्यस्पर्धायां विजयं प्राप्स्यति, तर्हि उपान्त्यस्पर्धायां तस्य सामना बाङ्ग्लादेशेन अथवा चीनदेशेन सह भविष्यति।
पुरुष-दलम् अपि प्रत्यक्षतया चतुर्थांश-अन्त्यस्पर्धायां प्रवेक्ष्यति
पुरुष-प्रतियोगितायामपि भारतदेश: प्रत्यक्षतया चतुर्थांश-अन्त्यस्पर्धायां स्पर्धिष्यति। किन्तु तस्य प्रतिद्वन्द्वी अद्यापि निर्धारितः नास्ति। अन्यानि वरीय-दलानि—पाकिस्तानम्, श्रीलङ्का तथा बाङ्ग्लादेशः—अपि प्रत्यक्षतया अन्तिम-अष्टक-चरणं प्रवेक्ष्यन्ति।
समूह-चरणे ‘ए’-समूहे अफगानिस्तानम्, जापानम् तथा नेपालः सन्ति, ‘बी’-समूहे हाङ्काङ्-चीनदेश:, मलेशिया तथा ओमानदेशः सन्ति। एतेषां स्पर्धानां अनन्तरं चतुर्थांश-अन्त्यस्पर्धायाः प्रतिद्वन्द्विनः निर्धार्यन्ते।
एशियाई-क्रीडा-२०२६ क्रिकेट-कार्यक्रमः
महिला-प्रतियोगिता (१७–२२ सितम्बरमासः)
चतुर्थांश-अन्त्यस्पर्धाः
भारतदेश: — जापानम्
बाङ्ग्लादेशः — चीनम्
श्रीलङ्का — मलेशिया
पाकिस्तानम् — थाइलैण्डः
उपान्त्यस्पर्धाः
भारतः/जापानम् — बाङ्ग्लादेशः/चीनम्
श्रीलङ्का/मलेशिया — पाकिस्तानम्/थाइलैण्डः
पुरुष-प्रतियोगिता (२४ सितम्बरमासः–१ अक्टोबरमासः)
समूहः ‘ए’ — अफगानिस्तानम्, जापानम्, नेपालः
समूहः ‘बी’ — हाङ्काङ्-चीनम्, मलेशिया, ओमानः
चतुर्थांश-अन्त्यस्पर्धाः
भारतः — (प्रतिद्वन्द्वी अद्यापि निर्धार्यते)
पाकिस्तानम् — (प्रतिद्वन्द्वी अद्यापि निर्धार्यते)
श्रीलङ्का — (प्रतिद्वन्द्वी अद्यापि निर्धार्यते)
बाङ्ग्लादेशः — (प्रतिद्वन्द्वी अद्यापि निर्धार्यते)
Hindusthan Samachar / Divya Ranjan