उपराष्ट्रपतिः, लोकसभाध्यक्षः, प्रधानमंत्री च इत्येभिः चंद्रशेखर आजादः लोकमान्य तिलकश्च स्मृतौ
नव दिल्ली, 23 जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला, प्रधानमन्त्री नरेन्द्रमोदी तथा अन्ये नेतारः अद्य चन्द्रशेखरआजादस्य लोकमान्यबालगङ्गाधरतिलकस्य च जयन्त्यां ताभ्यां श्रद्धाञ्जलिम् अर्पितवन्तः। उपराष्ट्रपति
प्रतीकात्मक


प्रतीकात्मक


नव दिल्ली, 23 जुलाईमासः (हि.स.)।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन्, लोकसभाध्यक्षः ओम् बिरला, प्रधानमन्त्री नरेन्द्रमोदी तथा अन्ये नेतारः अद्य चन्द्रशेखरआजादस्य लोकमान्यबालगङ्गाधरतिलकस्य च जयन्त्यां ताभ्यां श्रद्धाञ्जलिम् अर्पितवन्तः।

उपराष्ट्रपतिः 'एक्स्' सामाजिकमाध्यमे लिखितवान् यत् लोकमान्यबालगङ्गाधरतिलकः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य प्रमुखेषु नेतृषु अन्यतमः आसीत्। दूरदर्शी राजनेता, प्रख्यातः विद्वान्, निर्भीकः राष्ट्रवादी च सन् स्वस्य अमरोद्घोषेण “स्वराज्यं मम जन्मसिद्धोऽधिकारः, तत् अहं प्राप्स्याम्येव” इति स्वशासनस्य भावनाम् अजीजनत्। तस्य नेतृत्वम्, लेखनम्, राष्ट्राय समर्पणं च अनेकाः सन्ततीः स्वातन्त्र्याय राष्ट्रियचेतनायै च प्रेरितवन्ति।

चन्द्रशेखरआजादाय श्रद्धाञ्जलिम् अर्पयन् उपराष्ट्रपतिः उक्तवान् यत् सः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य तेजस्वी प्रतीकः आसीत्। तेन असाधारणं शौर्यं राष्ट्रनिष्ठा च प्रदर्शिता। तस्य जीवनम् असंख्येभ्यः युवभ्यः मातृभूमेः सेवायै आत्मसमर्पणस्य प्रेरणाम् अददात्। तस्य अमिटा विरासत् भाविपीढीष्वपि देशभक्तेः भावनाम् उद्दीपयिष्यति।

लोकसभाध्यक्षः ओम् बिरला उक्तवान् यत् महान् देशभक्तः स्वातन्त्र्यसेनानी चन्द्रशेखरआजादः राष्ट्राय समर्पितेन स्वजीवनेन सर्वदा प्रेरणां दास्यति।

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् चन्द्रशेखरआजादः असंख्येभ्यः भारतीययुवभ्यः राष्ट्रसेवायै समर्पितजीवनस्य प्रेरणाम् अददात्। तस्य दृढसङ्कल्पः प्रत्येकायाः सन्ततेः प्रेरणास्रोतः भविष्यति। लोकमान्यबालगङ्गाधरतिलकः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य महान् विभूतिः आसीत्। तेन राष्ट्रवादस्य भावना प्रज्वालिता तथा भाविसन्ततीः जनसेवायै समर्पितुं प्रेरिताः।

केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत् चन्द्रशेखरआजादः स्वस्य सर्वस्वं राष्ट्राय समर्पितवान् तथा मातृभूमेः स्वाधीनतामेव स्वजीवनस्य परमलक्ष्यम् अकरोत्। काकोरी-रेलयान-कार्यमाध्यमेन तेन आङ्ग्लशासनाय दृढः सन्देशः प्रदत्तः यत् राष्ट्रस्य सम्पत्सु केवलं तस्य नागरिकाणामेव अधिकारः अस्ति। तेन क्रान्तिकारिणां तादृशी सन्ततिः निर्मिता या विदेशिशासनस्य आधारम् अकम्पयत्। अद्यापि तस्य शौर्यगाथाः पठित्वा स्वस्य रोमरोमेषु देशभक्तेः भावना सञ्चरतीति सः अवदत्।

---------------

Hindusthan Samachar / Dheeraj Maithani