अमरकंटकस्य कोटितीर्थ कुंडस्य गौमुखं क्षतिग्रस्तं, शीघ्रं निर्मास्यते नूतनं गौमुखम्
अनूपपुरम्, 23 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य अनूपपुरजनपदे स्थितायाः मातुः नर्मदायाः उद्गमस्थल्याः अमरकण्टकस्य पवित्रे कोटितीर्थकुण्डे स्थापितः गौमुखः क्षतिग्रस्तः अभवत्। गौमुखस्य अधोभागः भग्नः भूत्वा पृथक् अभवत्, तथापि तस्मादेव स्थानात् मातुः नर
खंडित गौमुख से निकलती नर्मदा की धार्


अनूपपुरम्, 23 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य अनूपपुरजनपदे स्थितायाः मातुः नर्मदायाः उद्गमस्थल्याः अमरकण्टकस्य पवित्रे कोटितीर्थकुण्डे स्थापितः गौमुखः क्षतिग्रस्तः अभवत्। गौमुखस्य अधोभागः भग्नः भूत्वा पृथक् अभवत्, तथापि तस्मादेव स्थानात् मातुः नर्मदायाः पवित्रा जलधारा पूर्ववत् प्रवहति।

घटनायाः सूचना प्राप्ते सति सम्बद्धाधिकारिणः स्थलं निरीक्ष्य शीघ्रं नूतनस्य गौमुखस्य स्थापनार्थं प्रक्रियाम् आरब्धवन्तः।

गुरुवासरे कोटितीर्थकुण्डम् आगतवन्तः श्रद्धालवः गौमुखं क्षतिग्रस्तं दृष्ट्वा तस्य सूचना प्रशासनाय अददुः। सम्प्रति गौमुखः केन कारणेन क्षतिग्रस्तः अभवत् इति स्पष्टं न अभवत्।

सूचना प्राप्ते सति अमरकण्टकनगरपरिषदः मुख्यनगरपालिकाधिकारी चैनसिंह परस्ते कर्मचारिणः स्थलं प्रेष्य निरीक्षणं कारितवान्। सः अवदत् यत् क्षतिग्रस्तः गौमुखः शीघ्रं अपसार्य तस्य स्थाने नूतनः गौमुखः स्थापितः भविष्यति। एतदर्थं जबलपुरात् अथवा जयपुरात् नूतनः गौमुखः आनयितुं तयारी क्रियते, येन श्रद्धालूनां काप्यसुविधा न भवेत्।

अमरकण्टकप्राधिकरणस्य उपयन्त्री सुमितः अपि स्थलस्य निरीक्षणम् अकरोत्। सः अवदत् यत् नूतनस्य गौमुखस्य विधिवत् स्थापना शीघ्रमेव कारयिष्यते तथा च धार्मिकपरम्पराणां पूर्णतया पालनम् अपि भविष्यति।

उल्लेखनीयम् अस्ति यत् कोटितीर्थकुण्डं मातुः नर्मदायाः उद्गमस्य प्रमुखं धार्मिकस्थलम् अस्ति। अत्र प्रतिदिनं बहुसंख्यकाः श्रद्धालवः दर्शनाय, पूजनाय, जलाभिषेकाय च आगच्छन्ति। प्रशासनस्य कथनम् अस्ति यत् धार्मिकक्रियाकलापाः सामान्यरूपेण प्रवर्तिष्यन्ते तथा च रक्षणकार्यं शीघ्रमेव सम्पादयिष्यते।

Hindusthan Samachar / Dheeraj Maithani