उत्तरबङ्गे शतम् आधुनिक-पर्यटन-सूचना-केन्द्राणि निर्मास्यन्ते, पर्यटकेभ्यः एकस्मिन्नेव स्थाने सर्वाः सुविधाः प्रदास्यन्ते
कैफेटेरिया, होमस्टे तथा आधुनिक-शौचालयानां व्यवस्था भविष्यति, विस्तृत-परियोजना-प्रतिवेदनस्य निर्माणकार्यं प्रचलति कोलकातानगरम्, २३ जुलाईमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारः उत्तरबङ्गे पर्यटनस्य संवर्धनार्थम् अष्टसु जनपदेषु शतम् आधुनिक-पर्यटन-सूचना-केन
निशिथ प्रमाणिक


कैफेटेरिया, होमस्टे तथा आधुनिक-शौचालयानां व्यवस्था भविष्यति, विस्तृत-परियोजना-प्रतिवेदनस्य निर्माणकार्यं प्रचलति

कोलकातानगरम्, २३ जुलाईमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारः उत्तरबङ्गे पर्यटनस्य संवर्धनार्थम् अष्टसु जनपदेषु शतम् आधुनिक-पर्यटन-सूचना-केन्द्राणि स्थापयिष्यति। उत्तरबङ्ग-विकासमन्त्री निशीथ-प्रामाणिकः गुरुवासरे विधान-सभायां स्वविभागस्य आय-व्ययस्य चर्चायाः उत्तरं ददन् एतां सूचनाम् अददात्।

मन्त्री अवदत् यत् एतेषां केन्द्राणां माध्यमेन पर्यटकेभ्यः पर्यटन-स्थलानां, तत्र गमनोपायानां, निवास-व्यवस्थायाः तथा अन्यासाम् आवश्यक-सूचनानां लाभः एकस्मिन्नेव स्थाने भविष्यति। सः अवदत् यत् उत्तरबङ्गस्य प्रत्येकस्मिन् जनपदे न्यूनातिन्यूनम् अष्ट पर्यटन-सूचना-केन्द्राणि स्थापयिष्यन्ते। अस्याः परियोजनायाः विस्तृत-परियोजना-प्रति-वेदनस्य निर्माणकार्यं सम्प्रति प्रचलति।

अनन्तरं विधानसभापरिसरे पत्रकारैः सह वार्तालापे मन्त्री अवदत् यत् अधिकांशानि पर्यटन-सूचना-केन्द्राणि डुआर्स-प्रदेशे तथा वन-क्षेत्रेषु स्थापयिष्यन्ते, यत्र पर्यटकानां संख्या सर्वाधिकास्ति। सः अवदत् यत् तेषु दीर्घेषु वनमार्गेष्वपि एतानि केन्द्राणि निर्मास्यन्ते, यत्र भोजनालयाः अथवा अन्याः मूलभूत-सुविधाः न सन्ति, येन पर्यटकेभ्यः आवश्यक-साहाय्यं प्रदातुं शक्येत।

असम-उत्तरबङ्ग-सीम्नि भव्यं प्रवेशद्वारं निर्मास्यते

निशीथ-प्रामाणिकः अवदत् यत् चलित-वित्तीय-वर्षे असम-राज्यात् उत्तरबङ्गं प्रविश्यमानस्य मार्गस्य बक्सीरहाट-स्थले भव्यस्य प्रवेशद्वारस्य निर्माणं भविष्यति। अस्मिन् प्रवेशद्वारे पश्चिमबङ्गस्य संस्कृतेः परम्परायाश्च दृश्यं प्रदर्क्ष्यते।

उत्तरबङ्ग-विकासाय १,८०० कोटि-रूप्यकाणां प्रावधानम्

मन्त्री अवदत् यत् राज्य-सर्वकारेण स्वस्य प्रथम-आय-व्यये उत्तरबङ्ग-विकास-विभागाय अभिलेखीयं १,८०० कोटि-रूप्यकाणां प्रावधानं कृतम्। एतया राश्या पर्यटनस्य, आधारभूत-संरचनायाः तथा प्रदेशस्य समग्र-विकासस्य गतिः वर्धिष्यते। सः आरोपम् अकरोत् यत् पूर्ववर्तिना तृणमूल-काङ्ग्रेस-सर्वकारेण पञ्चदश-वर्षाणि यावत् उत्तरबङ्गस्य उपेक्षा कृता।

भ्रष्टाचारस्य विरुद्धं कठोर-कार्यवाही, १२२ अभिकरणानि कृष्णसूच्यां स्थापितानि

मन्त्री अवदत् यत् विभागे कथित-भ्रष्टाचारस्य अनियमिततानां च विरुद्धं कठोरम् अभियानं संचालितम्। मुख्यमन्त्रिणः शुभेन्दु-अधिकारिणः निर्देशानुसारं कार्यवाहीं कुर्वता अधुना यावत् विभागात् ठेका-कार्यं प्राप्तवतीनां १२२ अभिकरणानि प्रति कारणं दर्शयितुं सूचना प्रेषिता, तानि च कृष्णसूच्यां स्थापितानि।

सर्वेषां जनपदानां विधानसभाक्षेत्राणां च समविकासाय बलम्

मन्त्री अवदत् यत् अस्मिन् वर्षस्य आय-व्यये उत्तरबङ्गस्य सर्वेषां जनपदानां प्रत्येकं विधानसभाक्षेत्रस्य च पृथक् विकास-निधेः प्रावधानं कृतम्। सः अवदत् यत् सर्वकारस्य लक्ष्यं सम्पूर्णस्य उत्तरबङ्गस्य संतुलित-विकासस्य सुनिश्चिती-करणम् अस्ति। सः सत्तापक्षस्य विपक्षस्य च सर्वान् विधायकान् सहयोगाय आह्वयन् अवदत् यत् उत्तरबङ्गस्य विकासार्थं सर्वकारः राजनैतिक-मतभेदान् अतिक्रम्य कार्यं कर्तुम् इच्छति।

Hindusthan Samachar / Divya Ranjan