मुख्यमन्त्री धामी प्रश्नपत्र-प्रसारणप्रकरणेषु त्वरितन्यायालयस्य निर्णयस्य स्वागतं कृतवान्
देहरादूननगरम्, २३ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी प्रश्नपत्र-प्रसारणप्रकरणेषु दोषिणां विरुद्धं त्वरितश्रवणार्थं त्वरितन्यायालयस्य स्थापनासम्बद्धस्य प्रधानमन्त्रिण: नरेन्द्रमोदिनः निर्णयस्य स्वागतं कृतवान्। गुरुवासरे सः
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादूननगरम्, २३ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी प्रश्नपत्र-प्रसारणप्रकरणेषु दोषिणां विरुद्धं त्वरितश्रवणार्थं त्वरितन्यायालयस्य स्थापनासम्बद्धस्य प्रधानमन्त्रिण: नरेन्द्रमोदिनः निर्णयस्य स्वागतं कृतवान्। गुरुवासरे सः एतत् यूनां हितसंरक्षणस्य दिशि महत्त्वपूर्णं पदक्षेपम् इति अवदत्।

श्रीधामी अवदत् यत् प्रधानमन्त्रिणः एषः निर्णयः लक्षशः विद्यार्थिनां परिश्रमस्य, प्रतिभायाः, भविष्यस्य च सुरक्षां प्रति केन्द्रसर्वकारस्य दृढप्रतिबद्धतायाः परिचायकः अस्ति। सः उक्तवान् यत् प्रतियोगितापरीक्षाणां पारदर्शितां विश्वसनीयतां च अक्षुण्णां धारयितुं दोषिणां विरुद्धं समयबद्धा कठोरा च कार्यवाही अत्यावश्यकी अस्ति।

मुख्यमन्त्री विश्वासं व्यक्तवान् यत् त्वरितन्यायालयस्य स्थापनया प्रश्नपत्र-प्रसारणप्रकरणानां शीघ्रं निस्तारणं भविष्यति, दोषिभ्यः समयबद्धः कठोरदण्डः प्रदास्यते तथा भविष्ये एतादृशेषु अपराधेषु प्रभावी नियन्त्रणम् अपि भविष्यति। सः अवदत् यत् अनेन यूनां नियुक्तिपरीक्षासु चयनप्रक्रियायां च विश्वासः अधिकं दृढः भविष्यति।

उल्लेखनीयं यत् उत्तराखण्डसर्वकारः पूर्वमेव राज्ये प्रश्नपत्र-प्रसारणं अनुकरणं च निवारयितुं कठोरं विधानं प्रवर्तितवान्। मुख्यमन्त्री अवदत् यत् केन्द्र-राज्यसर्वकारयोः समन्वितप्रयत्नैः नियुक्ति-परीक्षाणां पारदर्शीता सुनिश्चिता भविष्यति तथा यूनां भविष्येन सह क्रीडां कुर्वतां विरुद्धं कठोरा कार्यवाही क्रियते।

Hindusthan Samachar / Divya Ranjan