ज्ञान-अर्थव्यवस्थायाः महाशक्तिः भविष्यति भारतदेशः, राष्ट्रनिष्ठा-संस्कारसमन्विता छात्रशक्तिः तस्य निर्माणं करिष्यति — अभाविप
• केरलात् काश्मीरपर्यन्तं, तेलङ्गाणात् हिमाचलपर्यन्तं छात्रहितस्य जागरणम्। • दशवर्षेभ्यः अग्रपङ्क्तौ स्थित्वा अखिल-भारतीय-विद्यार्थी-परिषद् अधुना नूतन-संकल्पेन अग्रे गमिष्यति। • विद्यार्थिनः आरभ्य विश्वगुरुत्वपर्यन्तं यात्रायाः भविष्यदृष्टिं अखिल
अखिल भारतीय विद्यार्थी परिषद के क्षेत्रीय संगठन मंत्री (पूर्वी उत्तर प्रदेश क्षेत्र) घनश्याम शाही।


• केरलात् काश्मीरपर्यन्तं, तेलङ्गाणात् हिमाचलपर्यन्तं छात्रहितस्य जागरणम्।

• दशवर्षेभ्यः अग्रपङ्क्तौ स्थित्वा अखिल-भारतीय-विद्यार्थी-परिषद् अधुना नूतन-संकल्पेन अग्रे गमिष्यति।

• विद्यार्थिनः आरभ्य विश्वगुरुत्वपर्यन्तं यात्रायाः भविष्यदृष्टिं अखिल-भारतीय-विद्यार्थी-परिषद् प्रादर्शयत्।

लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। एकविंशतितमे शतके ‘ज्ञान-अर्थव्यवस्थायाम्’ भारतं वैश्विकनेतृत्वस्य पदे प्रतिष्ठापयितुं राष्ट्रनिष्ठां, चरित्र-सम्पन्नां, नवाचारक्षमां च छात्रशक्तिं निर्मातुम् अखिलभारतीयविद्यार्थिपरिषद् स्वस्य भविष्यदृष्टिं प्रस्तुतवती। परिषदः मन्यते यत् ज्ञानस्य, अनुसंधानस्य, कौशलस्य, नवाचारस्य, भारतीय-सांस्कृतिक-मूल्यानां च समन्वयेन एव भारतं विश्वस्य अग्रणी ज्ञानमहाशक्तिः भवितुमर्हति। एतदेव ध्येयं पुरस्कृत्य अभाविप शिक्षा-सुधारं, चरित्रनिर्माणं, राष्ट्रनिर्माणं च एकसूत्रे संयोज्य देशस्य सर्वेषु शिक्षणसंस्थासु जागरूकां, समर्थां, संस्कारितां च छात्रशक्तिं निर्मातुं स्वप्रयत्नान् तीव्रीकरिष्यति। गतदशवर्षेषु छात्रहितसम्बद्धेषु विषयेषु राष्ट्रीयस्तरे निर्णायकां भूमिकां निर्वह्य परिषद् अधुना भारतं विश्वस्तरीय-शिक्षाव्यवस्थायाः दिशि नेतुं दृढसंकल्पिता अस्ति।

अखिलभारतीयविद्यार्थिपरिषदः पूर्वोत्तरप्रदेश-क्षेत्रस्य क्षेत्रीयसङ्घटनमन्त्री घनश्यामशाही हिन्दुस्थानसमाचारसंस्थया सह संवादे उक्तवान् यत् परिषदः मूलोद्देश्यं केवलं विद्यार्थिनां समस्यासमाधानं नास्ति, अपितु राष्ट्रजीवनस्य सर्वेषु क्षेत्रेषु चरित्रवन्तः, समर्थाः, सामाजिकदायित्व-बोधसम्पन्नाः, नेतृत्वक्षमाश्च युवजनाः निर्मातुं वर्तते। परिषदः दृढविश्वासः अस्ति यत् विश्वगुरुभारतस्य स्वप्नं तदैव साकारं भविष्यति, यदा देशस्य शिक्षाव्यवस्था विश्वस्तरीया, पारदर्शिनी, अनुसन्धान-आधारिता, प्रौद्योगिकीसमन्विता, विद्यार्थी-केन्द्रिता च भविष्यति।

सः अवदत् यत् एतत् लक्ष्यं साधयितुं परिषद् अग्रिमकाले पारदर्शिनीं नियुक्ति-प्रवेशपरीक्षाव्यवस्थां, एनटीए संस्थायाः व्यापकसुधारम्, प्रश्नपत्रप्रस्रवणस्य प्रभावात्मकं नियन्त्रणम्, समयबद्धं शैक्षणिक-पञ्चाङ्गम्, शिक्षाशुल्क-नियमन-विधेयकम्, शिक्षायां सकलराष्ट्रीयोत्पादस्य षट्प्रतिशतव्ययम्, आधुनिक-छात्रावासान्, डिजिटल-अनुसन्धान-सुविधानां विस्तारम्, नवोद्यम-नवाचारयोः प्रोत्साहनम्, सुरक्षितान् परिसरान्, गुणात्मकीं च शिक्षां विषयीकृत्य देशव्यापिनं अभियानं प्रवर्तयिष्यति।

क्षेत्रीयसङ्घटनमन्त्री उक्तवान् यत् शिक्षा-सुधारस्य एषा भविष्यदृष्टिः गतदशवर्षेषु छात्रहिताय सञ्चालितानां आन्दोलनानां, जनजागरणाभियानानां, लोकतान्त्रिक-संघर्षाणां च अनुभवानां आधारेण विकसितवती। केरलप्रदेशे चिकित्सा-महाविद्यालय-शुल्कवृद्धि-विरोधात् आरभ्य केन्द्रीयविश्वविद्यालयेषु छात्रावास-निर्माणस्य, रिक्ताध्यापकपदानां पूरणस्य, छात्रवृत्तेः, छात्रीणां सुरक्षायाः, शिक्षाया व्यवसायीकरणविरोधस्य, चिकित्साशिक्षायां स्थानवृद्धेः, शोधार्थिनामधिकार-रक्षणस्य, कोविड्काले विद्यार्थिहितस्य, सीयूईटी तथा एनटीए सुधारस्य, नीट प्रश्नपत्रप्रस्रवण-विरोधस्य राष्ट्रव्यापी-आन्दोलनस्य, तेलङ्गाणे छात्रवृत्ति-शुल्कप्रतिपूर्त्योः, हिमाचल-प्रदेशविश्वविद्यालये शुल्कवृद्धिविरोधस्य, नीट-२०२६ परीक्षायाः अनियमिततानां च विषयेषु अभाविप सततं राष्ट्रीयस्तरे विद्यार्थिनां स्वरं प्रबलतया उद्घोषितवती।

सः पुनरुक्तवान् यत् संघटनस्य परिचयः केवलम् आन्दोलनैः न, अपितु रचनात्मक-राष्ट्रनिर्माणेन अपि अस्ति। परिषदः प्रयत्नः अस्ति यत् भारतस्य प्रत्येकं शिक्षणसंस्थानम् उत्कृष्टतायाः, नवाचारस्य, अनुसन्धानस्य, नैतिक-मूल्यानां च केन्द्रं भवेत्, येन भारतीयविद्यार्थिनः वैश्विकस्पर्धायाम् अग्रस्थानं प्राप्नुयुः।

‘विद्यार्थी प्रथमः, शिक्षा सर्वोपरि, राष्ट्रं सर्वोच्चम्’ इति संकल्पः

सः अवदत् यत् “विद्यार्थी प्रथमः, शिक्षा सर्वोपरि, राष्ट्रं सर्वोच्चम्” इति अखिल-भारतीय-विद्यार्थी-परिषदः कार्यसंस्कृतिः अस्ति। अग्रिमेषु वर्षेषु परिषदः भारतं केवलं शिक्षितराष्ट्रं न, अपितु ज्ञानस्य, अनुसन्धानस्य, नवाचारस्य, सांस्कृतिक-मूल्यानां च बलात् विश्वस्य अग्रणीं ज्ञान-अर्थव्यवस्थां तथा विश्वगुरुम् स्थापयितुं राष्ट्रनिष्ठां, संस्कारितां, समाजोन्मुखीं च छात्रशक्तिं निर्मातुं प्रयतिष्यते। एतेन ध्येयेन अभाविप देशस्य सर्वेषु शिक्षणपरिसरेषु शिक्षा-सुधारस्य राष्ट्रनिर्माणस्य च अभियानं नूतनवेगेन प्रवर्तयिष्यति।

Hindusthan Samachar / अंशु गुप्ता