Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। बहुजनसमाजपक्षस्य राष्ट्रीयाध्यक्षा पूर्वमुख्यमन्त्री च मायावती नवदेहल्यां प्रचलितस्य कॉकरोच-जनतापक्षस्य प्रदर्शनस्य विषये विपक्षीयदलानां नेतॄणां सहभागं राजनीतिकलाभप्राप्तेः प्रयत्नम् इति निरूपितवती। सा बलपूर्वकम् अवदत् यत् सर्वकारः आन्दोलनकारिणश्च मिलित्वा अस्य शान्तिपूर्णं सौहार्दपूर्णं च समाधानं यथाशीघ्रं निष्पादयेयुः, तत् सर्वथा हितकरं भविष्यति।
सा गुरुवासरे सामाजिकमाध्यमस्य एक्स इत्यत्र प्रकाशिते स्वसन्देशे उक्तवती यत् प्रश्नपत्र-प्रस्रवणम् इत्यादीन् विविध-विषयान् अधिकृत्य कॉकरोच-जनतापक्षस्य नवदेहल्यां संसदः समीपे जन्तर-मन्तर-स्थले गतान्यनेकदिनानि प्रदर्शनम् अनुवर्तते। स्वभविष्यसम्बद्धम् अनिश्चितकालीनम् आन्दोलनम् आरभ्य तैः मार्गेभ्यः आरभ्य संसद्पर्यन्तं महान् कोलाहलः उत्पन्नः। अधुना विपक्षस्य राजनीतिकरणेन अयं विषयः सर्वकारेण सह प्रत्यक्षसंघर्षस्य रूपं प्राप्तवान्। एतादृश्याः विषमपरिस्थितेः देशस्य विमोचनम् अत्यावश्यकम्, यतः अस्य प्रभावः केवलं देहल्यां न, अपितु विभिन्नेषु राज्येष्वपि सामान्यजनजीवनं बाधते।
मायावती विपक्षीयदलानां नामानि अनुल्लिख्य उक्तवती यत् सीजेपी-आन्दोलनस्य विस्तारं दृष्ट्वा विभिन्न-राजनैतिकदलैः स्वस्वसंकीर्ण-स्वार्थ-सिद्ध्यर्थं तस्य राजनीतिकरणं कृत्वा मार्गात् संसद्पर्यन्तं संघर्षस्य हिंसायाश्च वातावरणं निर्मीयते, यत् अत्यन्तम् अनुचितम्। अतः सर्वकारः आन्दोलन-कारिणश्च मिलित्वा अस्य शान्तिपूर्णं सौहार्दपूर्णं च समाधानं यथाशीघ्रं निष्पादयेयुः।
बसपा-अध्यक्षा पुनरुक्तवती यत् अखिलभारतीय-राज्यस्तरीयपरीक्षासु प्रश्नपत्र-प्रस्रवणस्य विषयः भवतु अथवा मन्दिरेषु समर्पितधनस्य चौर्य-अपहारादीनां प्रकरणानि, एतानि सर्वाणि मूलतः सर्वेषु स्तरेषु वर्धमानस्य भ्रष्टाचारस्य एव परिणामाः सन्ति।
Hindusthan Samachar / Divya Ranjan