स्वामिनः अविमुक्तेश्वरानन्दस्य ‘गो-गर्जना-अक्षौहिणी-सङ्कल्पस्य’ स्वरूपे परिवर्तनम्, इदानीं प्रत्येकं विधानसभाक्षेत्रे आयोजनम्
लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। स्वामिनः अविमुक्तेश्वरानन्दसरस्वत्याः आह्वानेन २४ जुलाईमासे प्रस्तावितस्य ‘गो-गर्जना-अक्षौहिणी-सङ्कल्पस्य’ कार्यक्रमस्य स्वरूपे परिवर्तनं कृतम्। आयोजन-समित्या लखनऊ-प्रशासनस्य असहयोगस्य आरोपं कृत्वा घोषितं यत् लखनऊनग
स्वामी अविमुक्तेश्वरानंद सरस्वती


लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। स्वामिनः अविमुक्तेश्वरानन्दसरस्वत्याः आह्वानेन २४ जुलाईमासे प्रस्तावितस्य ‘गो-गर्जना-अक्षौहिणी-सङ्कल्पस्य’ कार्यक्रमस्य स्वरूपे परिवर्तनं कृतम्। आयोजन-समित्या लखनऊ-प्रशासनस्य असहयोगस्य आरोपं कृत्वा घोषितं यत् लखनऊनगरे एकस्मिन् स्थाने कार्यक्रमस्य आयोजनस्य स्थाने इदानीं प्रदेशस्य प्रत्येकं विधानसभाक्षेत्रे मध्याह्ने द्वादशवादने स्थानीयस्तरे कार्यक्रमः भविष्यति।

समित्या उक्तं यत् कार्यक्रमार्थं कांशीराम-स्मृति-उपवनस्य उपयोगाय पूर्वमेव आवेदनं कृतम्, शुल्कमपि समर्पितम्, तथापि प्रशासनात् समये अनुमतिः न प्राप्ता। एतस्मात् देशस्य विविधभागेभ्यः आगच्छतां गोभक्तानां मध्ये संशयः उत्पन्नः।

स्वामिना अविमुक्तेश्वरानन्दसरस्वत्या मुख्यमन्त्रिणे पत्रं सम्प्रेष्य सम्पूर्णघटना-क्रमस्य सूचना प्रदत्ता। कार्यक्रमस्य डिजिटल-स्वरूपे आयोजनस्य निर्णयोऽपि कृतः। इदानीं प्रत्येकं विधानसभाक्षेत्रे गोमातुः चित्रस्य अथवा प्रतिमायाः पुरतः पूजनानन्तरं स्थानीय-कार्यक्रमाः भविष्यन्ति। ततः स्वामिनः प्रवचनस्य सामूहिक-प्रसारणं भविष्यति तथा गोसंरक्षणस्य सङ्कल्पः स्वीकरिष्यते।

समित्या आरोपितं यत् पूर्ववत् अस्मिन्नपि कार्यक्रमे अन्तिमक्षणपर्यन्तम् अनिश्चित-तायाः स्थितिः निर्मिता। कतिपये आयोजकाः प्रतिनिधयश्च गृहनिरोधे स्थापिताः इत्यपि उक्तम्, यद्यपि एतेषाम् आरोपाणां स्वतन्त्रतया पुष्टिः न जाता। स्वामिना देशव्यापिभ्यः गोभक्तेभ्यः लखनऊनगरं न आगन्तुं, स्व-स्व-विधानसभाक्षेत्रेषु आयोजितेषु कार्यक्रमेषु सहभागित्वं कर्तुं च आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan