आस्थायां प्रहारकर्तारः अद्य आस्थावतां प्रतिनिधित्वं नयन्ति : मुख्यमंत्री योगी
गोरखपुरम्, 23 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे गोरक्षपुरे ९९५ कोटिरूप्यकपरिमितानां परियोजनानां समर्पणं कृत्वा जनपदस्य प्रथमस्य षट्पथीयोपरिसेतोः सहितं चतसृणां महत्त्वपूर्णपरियोजनानां लोकार्पणम् अकरोत् तथा दश नवीनविकासयोजना
कार्यक्रम को संबोधित करते हुए मुख्यमंत्री योगी आदित्यनाथ


गोरखपुरम्, 23 जुलाईमासः (हि.स.)।

मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे गोरक्षपुरे ९९५ कोटिरूप्यकपरिमितानां परियोजनानां समर्पणं कृत्वा जनपदस्य प्रथमस्य षट्पथीयोपरिसेतोः सहितं चतसृणां महत्त्वपूर्णपरियोजनानां लोकार्पणम् अकरोत् तथा दश नवीनविकासयोजनानां शिलान्यासमपि अकरोत्। टीपी नगर पैडलेगञ्ज मार्गे आयोजिते समारोहे मुख्यमन्त्री विकासं विधिव्यवस्थां श्रद्धां रोजगारं पूर्वोत्तरप्रदेशस्य समग्रपरिवर्तनं च उल्लिख्य समाजवादीपक्षं काङ्ग्रेसपक्षं च प्रति तीक्ष्णं राजनैतिकमाक्रमणम् अकरोत्। सः अवदत् यत् ये सत्तायां स्थित्वा श्रद्धायाः उपरि प्रहारम् अकुर्वन् ते एव अद्य स्वान् महान् श्रद्धालून् इति प्रतिपादयितुं प्रयतन्ते।

मुख्यमन्त्री अवदत् यत् काङ्ग्रेसपक्षस्य समाजवादीपक्षस्य च नेतृणां मुखेभ्यः श्रद्धासम्बद्धानि वचनानि श्रुत्वा हास्यमेव जायते। तेन आरोपः कृतः यत् समाजवादीपक्षः श्रीरामजन्मभूम्याः आन्दोलनस्य मार्गे विघ्नम् अकरोत् तथा रामभक्तानाम् उपरि गोलिकाप्रहारान् अकारयत्। काङ्ग्रेसपक्षः भगवान् श्रीरामस्य अस्तित्वस्य मन्दिरान्दोलनस्य च विरोधे सर्वोच्चन्यायालये स्वपक्षम् प्रस्तुतवान्। तेन उक्तं यत् एतादृशानां दलानाम् अद्य श्रद्धाविषये उपदेशदातुं नैतिकः अधिकारः नास्ति।

२०१७ वर्षात् पूर्वं दङ्गाः असुरक्षा च अराजकता च एव परिचयः

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् २०१७ वर्षात् पूर्वम् उत्तरप्रदेशः दङ्गैः अपराधैः अराजकतया च परिचितः आसीत्। होली रामनवमी विजयदशमी दुर्गापूजा कांवडयात्रा इत्यादिषु धार्मिकसमारोहेषु अपि तनावस्य हिंसायाः च वातावरणम् आसीत्। वणिजां भगिनीनां कन्यानां सामान्यजनानां च सुरक्षा सङ्कटे आसीत्। अद्य तु प्रदेशे विधेः शासनं स्थापितम् अस्ति तथा प्रत्येकः जनः निर्भयतया स्वजीवनं यापयति स्वव्यवसायं च करोति।

मुख्यमन्त्री अवदत् यत् पूर्वोत्तरप्रदेशे सहस्रशः बालकानां निधनम् अभवत् किन्तु तत्कालीनसर्वकाराणां कर्णयोः जूं अपि न सञ्चचार। सः अवदत् यत् भारतीयजनतापक्षसर्वकारेण स्वास्थ्यसेवाः सुदृढीकृताः। चिकित्सामहाविद्यालयानां संख्या वर्धिता तथा पूर्वाञ्चलप्रदेशः इन्सेफेलाइटिस इति व्याधेः भीषणत्रासात् प्रायेण मुक्तः कृतः।

मुख्यमन्त्री अवदत् यत् समाजवादीपक्षस्य शासनकाले राजकीयनियुक्तिषु सैफई सिन्डिकेट इत्यस्य आधिपत्यं वर्तते स्म। योग्ययुवभ्यः अवसराः न लभ्यन्ते स्म तथा नियुक्तिप्रक्रियायां पक्षपातः भवति स्म। सः अवदत् यत् भारतीयजनतापक्षसर्वकारेण गतनववर्षेषु भेदभावं विना नवलक्षं युवभ्यः राजकीयनियुक्तयः प्रदत्ताः। अपरं पञ्चषष्टिलक्षं युवभ्यः निजीविनिवेशस्य माध्यमेन रोजगारः प्राप्तः। एकजनपद एकोत्पाद योजना इत्यादिभिः योजनाभिः कोटिशः युवानः शिल्पिनः च स्वरोजगारस्य अवसरम् अलभन्त।

मुख्यमन्त्री योगी अवदत् यत् कदाचित् गोरक्षपुरं माफियाः अपराधाः मशकाः च कारणेन कुख्यातम् आसीत्। निवेशकाः अत्र आगन्तुं बिभ्यति स्म तथा गीडा क्षेत्रे कश्चन उद्योगं स्थापयितुम् इच्छां न करोति स्म। अद्य सुरक्षायाः उत्तमपरिवेशस्य च कारणेन गीडा क्षेत्रे बृहद्विनिवेशः जातः येन प्रायः पञ्चाशत्सहस्रं युवभ्यः रोजगारः प्राप्तः। सः अवदत् यत् अधुना गोरक्षपुरे भूमिक्रयः गृहनिर्माणं च जनानां प्रथमः विकल्पः अभवत्।

शर्कराकारखानानां विक्रयविषये अपि विपक्षः लक्ष्यीकृतः

मुख्यमन्त्री योगी आरोपम् अकरोत् यत् २००७ वर्षात् २०१७ वर्षपर्यन्तं प्रदेशस्य २९ शर्कराकारखानाः निरुद्धाः तथा तेषु २१ कारखानाः अत्यल्पमूल्येन विक्रीताः। सः अवदत् यत् पडरौना शर्कराकारखानः केवलं द्विकोटिरूप्यकैः विक्रीतः। तस्य भूमेः मूल्यं एव प्रायः द्विशतकोटिरूप्यकाणि आसीत्।

मुख्यमन्त्री अवदत् यत् यदा सर्वकारस्य नीयतिः शुद्धा भवति तदा विकासः अपि दृश्यते। सः अवदत् यत् द्वियन्त्रसर्वकारेण गोरक्षपुरे एम्स चिकित्सालयः चिकित्सामहाविद्यालयानां विस्तारः निरुद्धस्य उर्वरककारखानस्य पुनरुद्धारः उत्तमाः मार्गाः वायुसम्पर्कव्यवस्था च इत्यादयः अनेकाः उपलब्धयः प्रदत्ताः। सः मुक्तेश्वरनाथमन्दिरस्य पुनरुद्धारम् उल्लिख्य झारखण्डीमहादेवमन्दिरस्य विकासस्य अपि आश्वासनम् अदात्।

गोरक्षपुरस्य सांसदः रविकिशन शुक्लः अवदत् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे गोरक्षपुरस्य रूपं भाग्यं च उभयं परिवर्तितम्। यत् नगरं कदाचित् भग्नमार्गैः पश्चाद्वर्तित्वेन च परिचितम् आसीत् तत् एव अद्य आधुनिकैः उपरिसेतुभिः विश्वस्तरीयाधारभूतसुविधाभिः च समलङ्कृतम् अस्ति। महापौरः डा मङ्गलेश श्रीवास्तवः अवदत् यत् मुख्यमन्त्रिणः योगी नेतृत्वे गोरक्षपुरं निरन्तरं विकासस्य नवीनान् आयामान् स्थापयति। सः अवदत् यत् पूर्वं यस्य नगरस्य उपेक्षा भवति स्म अद्य तत् प्रतिवारं नवीनविकासपरियोजनानां समर्पणं प्राप्नोति।

---------------

Hindusthan Samachar / Dheeraj Maithani