गम्भीररोगोपचारे सर्वकारः सम्यक् आर्थिकसाहाय्यं प्रदास्यति - मुख्यमन्त्री योगी
गोरखपुरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे गोरक्षनाथमन्दिरे आयोजिते जनतादर्शने प्रायः द्विशतं जनै: सह मिलित्वा तेषां समस्याः अशृणोत् तथा च अधिकारिणः तासां त्वरित-पारदर्शि-सन्तोषजनक-समाधानाय निर्देशान् अयच
जनता दर्शन में फरियादियों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ


जनता दर्शन में फरियादियों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ


जनता दर्शन में फरियादियों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ


जनता दर्शन में फरियादियों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ


गोरखपुरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे गोरक्षनाथमन्दिरे आयोजिते जनतादर्शने प्रायः द्विशतं जनै: सह मिलित्वा तेषां समस्याः अशृणोत् तथा च अधिकारिणः तासां त्वरित-पारदर्शि-सन्तोषजनक-समाधानाय निर्देशान् अयच्छत्। सः स्पष्टतया अवदत् यत् सर्वकारः प्रत्येकम् आवश्यकतायुक्तस्य जनस्य पार्श्वे दृढतया तिष्ठति तथा जनसमस्यानां निवारणे कस्मिन्नपि स्तरे प्रमादः कदापि न सह्यते।

गुरुवासरे प्रातःकाले गोरक्षनाथ-मन्दिरपरिसरे स्थितस्य महन्त-दिग्विजयनाथ-स्मृतिभवनस्य बहिः आयोजिते जनतादर्शने प्रदेशस्य विभिन्नजनपदेभ्यः आगताः जनाः मुख्यमन्त्रिणः पुरतः स्वसमस्याः निवेदितवन्तः। मुख्यमन्त्री प्रत्येकेन प्रार्थिना सह सौहार्दपूर्वकं संवादम् अकरोत्। तेषां निवेदनं सावधानतया श्रुत्वा सम्बन्धिताधिकारिभ्यः प्रार्थनापत्राणि समर्प्य समयबद्ध-गुणवत्तायुक्त-कार्यवाह्याः सुनिश्चितीकरणाय निर्देशान् दत्तवान्।

जनतादर्शने बहवः जनाः अपि आगतवन्तः ये गम्भीररोगाणाम् उपचारार्थम् आर्थिकसाहाय्यम् अयाचन्त। मुख्यमन्त्री योगी आदित्यनाथः तान् आश्वासितवान् यत् धनाभावात् कस्यापि आवश्यकतायुक्तस्य जनस्य उपचारः न स्थगितः भविष्यति। सः अधिकारिणः निर्देशितवान् यत् पात्ररोगिणां उपचारस्य विस्तृतम् व्ययविवरणम् शीघ्रं सज्जीकृत्य शासनाय प्रेष्यताम्, येन सर्वकारः शीघ्रमेव आर्थिकसाहाय्यं प्रदातुं शक्नुयात्।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः दरिद्राणां आवश्यकतायुक्तपरिवाराणां स्वास्थ्यस्य विषये पूर्णतया संवेदनशीलः अस्ति। सः अधिकारिणः निर्देशितवान् यत् सर्वेषां पात्रजनानाम् आयुष्मान् भारत-पत्राणाम् निर्माणप्रक्रिया अपि त्वरिता क्रियताम्, येन भविष्येऽपि ते उत्तमम् निःशुल्कोपचारस्य सुविधां प्राप्नुयुः।

मुख्यमन्त्री अवदत् यत् कस्यापि व्यक्तेः सह अन्यायः न भवेत्। प्रत्येकं शिकायतकर्त्रा सह संवेदनशीलतया सम्मानपूर्वकं च व्यवहारः क्रियताम् तथा तस्य समस्यायाः शीघ्रसमाधानं सुनिश्चितं भवेत्। विशेषतः राजस्वविभागस्य तथा आरक्षकविभागस्य विषयेषु गम्भीरता अवश्यं पालनीया इति सः निर्देशितवान्।

पारिवारिकविवादेषु मुख्यमन्त्री उक्तवान् यत् प्रथमं संवादेन परस्परसम्मत्याः माध्यमेन समाधानस्य प्रयासः करणीयः। आवश्यकता सति एव वैधानिकीं कार्यवाहीं क्रियताम्। शासनस्य प्राथमिकता जनानां राहत् प्रदातुमेव अस्ति, अतः प्रत्येकं सूचनायाः निस्तारणं तत्परतया, पारदर्शितया, मानवीयसंवेदनाभिः सह करणीयम् इति सः अवदत्।

गोशालां गत्वा गोसेवाम् अकरोत्, गोभ्यः गुडं भोजितवान्

जनतादर्शनानन्तरं मुख्यमन्त्रिणः योगी-आदित्यनाथस्य दिनचर्या परम्परानुसारमेव अभवत्। सः प्रथमं गुरु-गोरक्षनाथस्य दर्शन-पूजनम् अकरोत्। स्वगुरोः ब्रह्मलीनमहन्त-अवेद्यनाथस्य प्रतिमायां श्रद्धासुमनांसि समर्पितवान्। ततः मन्दिरपरिसरस्य भ्रमणं कृत्वा गोशालां गतवान् तथा गावः अन्यान् गोवंशान् च स्वहस्ताभ्यां गुडं भोजितवान्।

मुख्यमन्त्री गोशालायाः कार्यकर्तृभ्यः गोवंशस्य स्वास्थ्यस्य, परिचर्यायाश्च व्यवस्थाविषये सूचनाम् अलभत। तेषां उत्तमसंरक्षणाय सेवायै च आवश्यकान् निर्देशान् अपि दत्तवान्। गोशालायां मुख्यमन्त्रिणः स्नेहपूर्णः व्यवहारः तथा गोसेवायाः दृश्यं तत्र उपस्थितानां जनानां विशेषाकर्षणस्य केन्द्रम् अभवत्।

मुख्यमन्त्रिणः योगी आदित्यनाथस्य एतत् जनतादर्शनम् पुनरेकवारं एतेन संदेशेन सम्पन्नम् अभवत् यत् प्रदेशसर्वकारः सामान्यजनानां समस्यासमाधाने, आवश्यकता-युक्तानाम् उपचारे, सुशासनस्य च प्रतिबद्धतायां सर्वोच्च-प्राथमिकतां ददाति। जनश्रवणकाले मुख्यमन्त्रिणः संवेदनशीलता, त्वरित-निर्णयक्षमता तथा अधिकारिभ्यः प्रदत्ताः स्पष्टनिर्देशाः प्रार्थिषु न्यायस्य शिथिलताया: च नूतनाम् आशां जनितवन्तः।

Hindusthan Samachar / Divya Ranjan