Enter your Email Address to subscribe to our newsletters

फिरोजाबादम्, 23 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य योगिसर्वकारस्य स्वास्थ्यविभागस्य योजनानां लाभः प्राप्तः चेत् फिरोजाबादजनपदस्य रईस अहमदः कर्कटरोगस्य इव गम्भीरव्याधिमपि पराजितवान्। अधुना सः सरकारस्य अन्यासामपि बहूनां योजनानां लाभं प्राप्य स्वकुटुम्बस्य पालनपोषणं करोति।
फिरोजाबादजनपदस्य हबीबगञ्जनिवासी मोहम्मद रईस अहमदस्य परिवारे चत्वारः सदस्याः सन्ति, पतिपत्नी द्वौ बालकौ च। तस्य जीवने महत् संकटं तदा समुत्पन्नम् यदा तस्मै मुखकर्कटरोगस्य इव गम्भीरव्याधेः निदानं जातम्। सामान्यस्य दरिद्रपरिवारस्य कृते कर्कटरोगस्य इव घातकव्याधेः उपचारः आर्थिकदृष्ट्या अत्यन्तमसाध्यः प्रतिभाति स्म। तस्मिन् विषमे काले प्रदेशसरकारस्य स्वास्थ्य तथा खाद्यसुरक्षासम्बद्धाः योजनाः तस्य कृते वरदानसदृशाः अभवन्।
रईसस्य कथनानुसारम् आयुष्मानभारतयोजनायाः माध्यमेन प्रारम्भिकावस्थायामेव कर्कटरोगस्य निःशुल्कः गुणवत्तायुक्तश्च उपचारः प्राप्तः, येन तस्य जीवनस्य रक्षणम् अभवत्। एतदेव न, अन्त्योदय राशनकार्डस्य माध्यमेन तस्य परिवाराय प्रतिमासं पञ्चत्रिंशत् किलोग्रामपरिमितं राशनं प्राप्यते, येन रोगावस्थायां परिवारस्य भरणपोषणसम्बद्धा चिन्ता अपगता। अपरं प्रधानमन्त्रिणः उज्ज्वलायोजनायाः अन्तर्गतं गृहे निःशुल्कगैससंयोजनं गैससिलिण्डरश्च प्राप्तौ, येन पाकगृहस्य धूमात् मुक्तिः प्राप्ता स्वास्थ्यसुरक्षा च सुनिश्चिताभवत्।
स्वीयाम् आत्मकथां तथा शासकीयसहायतायाः अनुभवं प्रकाशयन् रईस अहमदः अत्यन्तं भावुकस्वरेण अवदत्, वयं अत्यन्तं सामान्यदरिद्रपरिवारात् स्मः। यदा कर्कटरोगस्य निदानम् अभवत् तदा सर्वं समाप्तमिव अभात्। किन्तु आयुष्मानभारतयोजनया मम उपचारः सम्भवः अभवत् तथा मम जीवनं रक्षितम्। अधुना मम अन्त्योदयकार्डद्वारा अन्नं प्रधानमन्त्रिणः उज्ज्वलायोजनया अनिलसुविधा च प्राप्यते, येन अहं मम परिवारश्च अधुना उत्तमं जीवनं यापयावः। सहैव अहं मम बालकाभ्यां उत्तमां शिक्षामपि प्रदातुं समर्थः अस्मि।
रईस अहमदः मुख्यमन्त्रिणः तथा जिलाधिकारी सन्तोषकुमारशर्मणः प्रति कृतज्ञतां प्रकटितवान्।
जिलाधिकारी सन्तोषकुमारशर्मा अवदत् यत् मम हर्षस्य विषयः अस्ति यत् रईस अहमदः शासकीययोजनानां लाभं प्राप्तवान्। एतत् अस्य प्रमाणम् अस्ति यत् शासकीययोजनाः भूमिस्तरे जनानां जीवनं रक्षन्ति तथा तेषां जीवने सकारात्मकपरिवर्तनम् आनयन्ति।
Hindusthan Samachar / Dheeraj Maithani