रालोदस्य नवनियुक्तः कार्यकारी-प्रदेशाध्यक्षः अनुपममिश्रः भव्यस्वागतेन अभिनन्दितः
लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। राष्ट्रीय-लोकदलस्य प्रदेशमुख्यालये नवनियुक्तस्य कार्यकारी-प्रदेशाध्यक्षस्य अनुपममिश्रस्य प्रथमागमनावसरे भव्यः स्वागतसमारोहः आयोजितः। कार्यक्रमस्य प्रारम्भात् पूर्वं भारतरत्न-पूर्वप्रधानमन्त्रिणः चौधरीचरणसिंहस्य प्रत
प्रहलाद के नवनियुक्त कार्यकारी उत्तर प्रदेश के अध्यक्ष अनुपम मिश्रा का स्वागत करते पार्टी नेतागण और कार्यकर्ता


रालोद के नवनियुक्त कार्यकारी उत्तर प्रदेश के अध्यक्ष अनुपम मिश्रा का स्वागत करते पार्टी नेतागण और कार्यकर्ता


लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। राष्ट्रीय-लोकदलस्य प्रदेशमुख्यालये नवनियुक्तस्य कार्यकारी-प्रदेशाध्यक्षस्य अनुपममिश्रस्य प्रथमागमनावसरे भव्यः स्वागतसमारोहः आयोजितः। कार्यक्रमस्य प्रारम्भात् पूर्वं भारतरत्न-पूर्वप्रधानमन्त्रिणः चौधरीचरणसिंहस्य प्रतिमायै माल्यार्पणं कृत्वा श्रद्धाञ्जलिः समर्पिता। ततः पश्चात् जयन्तचौधरीणा कार्यकारी-प्रदेशाध्यक्षत्वे नियुक्तस्य अनुपममिश्रस्य पुष्पमालाभिः, पुष्पवृष्ट्या घोषैश्च हार्दिकस्वागतं कृतम्।

स्वसम्बोधने अनुपममिश्रः अवदत् यत् एतत् पदं केवलं सम्मानं न, अपितु कार्यकर्तॄणां विश्वासस्य दायित्वमस्ति। संगठनस्य मण्डलात् बूथस्तरपर्यन्तं सुदृढीकरणं, वरिष्ठकार्यकर्तॄणाम् अनुभवस्य यूनां उत्साहस्य च समन्वयः, तथा कृषकाणां, यूनां, महिलानां च पक्षेण सह अधिकं सम्पर्कः भविष्यतीति सः उक्तवान्।

प्रदेश-पत्रकार-प्रभारी मयङ्कत्रिवेदी अवदत् यत् एषः समारोहः राष्ट्रिय-लोकदलस्य विचारधारायाः चौधरीचरण-सिंहं प्रति सम्मानस्य च प्रतीकः अस्ति। अन्ये वक्तारोऽपि अनुपममिश्रस्य नेतृत्वे संगठनस्य अधिकं सुदृढीकरणस्य विश्वासं व्यक्तवन्तः।

अस्मिन्नवसरे प्रदेशस्य विविधभागेभ्यः आगताः बहुसंख्यकाः पदाधिकारीण:, जनपदाध्यक्षाः, विभिन्नप्रकोष्ठानां प्रतिनिधयः, युवा-कार्यकर्तारः समर्थकाश्च उपस्थिताः आसन्। सम्पूर्णकार्यक्रमस्य अवधौ प्रदेशकार्यालयः “जयन्तचौधरी जिन्दाबाद” तथा “राष्ट्रिय-लोकदल जिन्दाबाद” इति घोषैः गुञ्जितः आसीत्।

अस्मिन्नवसरे रमावतीतिवारी, प्रीति-श्रीवास्तव:, अङ्कुरसक्सेनः, इजहार-अली, बी. एल. प्रेमी, प्रोफेशनल-मञ्चस्य प्रदेशाध्यक्षः अम्बुजपटेलः, श्रम-प्रकोष्ठस्य प्रदेशाध्यक्षः महेशपालधनगरः, अवध-क्षेत्रस्य क्षेत्रीयाध्यक्षः चौधरीरामसिंहपटेलः, तराई-क्षेत्रस्य अध्यक्षः पी. के. पाठकः, मायादेवी इत्यादयः स्वागतसमारोहे उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan