Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २३ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य आजमगढ-जनपदस्य निजामाबाद-विधानसभाक्षेत्रस्य वयोवृद्धः विधायकः आलम-बदी नवत्यधिकवयसा दिवंगतः। उत्तरप्रदेश-विधानसभायाः अध्यक्षः सतीश-महाना निजामाबाद-विधानसभाक्षेत्रस्य विधायकस्य आलम-बदी-महोदयस्य निधनं प्रति शोकं व्यक्तवान्। समाजवादी-पक्षस्य अध्यक्षः अखिलेश-यादवः अन्ये नेतारश्च अपि तस्य निधनं प्रति शोकं व्यक्तवन्तः।
विधानसभाध्यक्षः सतीश-महाना गुरुवासरे प्रकाशिते स्वशोकसन्देशे अवदत् यत् आलम-बदी-महोदयस्य निधनं प्रदेशस्य राजनीतिक्षेत्रस्य सार्वजनिकजीवनस्य च कृते अपूरणीया क्षतिः अस्ति। स्वदीर्घसार्वजनिकजीवने तेन जनसेवायै, लोकतान्त्रिकमूल्यानां संरक्षणाय, सामाजिकसरोकारेषु च उल्लेखनीयं योगदानं प्रदत्तम्। तस्य सरलतापूर्णं व्यक्तित्वं जनकल्याणाय समर्पणं च सदा स्मरणीयं भविष्यति।
विधानसभाध्यक्षः दिवंगतपुण्यात्मने भावपूर्णां श्रद्धाञ्जलिम् अर्पयन् ईश्वरं प्रार्थितवान् यत् सः तस्मै स्वश्रीचरणयोः स्थानं ददातु तथा शोकसन्तप्तपरिजनान्, समर्थकान्, असंख्यान् शुभचिन्तकान् च एतत् असीमं दुःखं सोढुं शक्तिं प्रददातु।
आलम-बदी समाजवादी-पक्षस्य प्रत्याशी-रूपेण पञ्चमवारं विधायकत्वेन निर्वाचितः आसीत्। समाजे तस्य परिचयः सत्यता, सरलः, जनसुलभः नेता इति आसीत्। तेन अत्यन्तं सरलतापूर्णं जीवनं व्यतीतम्। जनपदे समाजसेवायां तथा विधान-सभायामपि स्वक्षेत्रस्य जनानां स्वरं उत्थापयितुं सः कदापि न पृष्ठतः अपसृतवान्। सः सदा स्वक्षेत्रस्य समस्याः प्रमुखतया प्रस्तुतवान्। सः दीर्घकालात् अस्वस्थः आसीत्। अद्य सः आजमगढस्य कुर्मी-टोला स्थिते स्वनिजनिवासे अन्तिमं श्वासम् अत्यजत्। तस्य निधनात् सम्पूर्णे क्षेत्रे शोकलहर: व्याप्त: अस्ति।
Hindusthan Samachar / Divya Ranjan